________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 371 तद्वहति न भवत्यनभिधानात् / ननु यो रथं वहति स रथस्य वोढा भवति / तत्र रथात्सादेश्च वोङ्ग इत्येव सिद्धं तत् किं रथग्रहणेन ? सत्यम् / अलुवर्थ तु तद्ग्रहणम्। तेन हि ये विधीयमाने 'द्विगोरनपत्ये यस्वरादे बद्विः' इति लुपा भवितव्यम् / द्वयो रथयोऽढा द्विरथः / अनेन तु विधीयमाने न भवति अप्रागजितीयत्वात् / एवं च द्विगौ रूपद्वयं संपन्नं भवति / 1842 धुरो यैयण // 71 / 3 // धुर् इत्येतस्माद् द्वितीयान्ताद् वहत्यर्थे य एयण इत्येतौ प्रत्ययौ स्याताम् / 1843 न यि तद्विते // 2 // 1 // 65 // यकारादौ तद्धिते परे यो झै तयोः परयो मिनो दी? न स्यात् / धुरं वहति धुर्यः धौरेयः / एयण्वेत्यकृत्वा यग्रहणमिदमर्थविवक्षायां वहत्यर्थेऽण्बाधनार्थम् ।यो हि यद्वहति स तस्य संबंधी / कश्चित्तु यडेयकणावपीच्छति तन्मते धुर्यः / स्त्रियां टित्वाद् ङी धुरी / धौरेयकः / 1844 वामाद्यादेरीनः // 7 // 1 // 4 // वाम आदिउँपां ते वामादयः। तत्पूर्वात् धुर् इत्येतदन्ताद् द्वितीयान्ताद्वहत्यर्थे ईन, प्रत्ययः स्यात् / वामा धूमधुरा / समासान्तादाप् / वामधुरां वहति वामधुरीणः / एवं सर्वधुरीणः। उत्तरधुरीणः / दक्षिणधुरीणः / वामादयः प्रयोमगम्याः / सर्वधुर्य इत्यत्र यपत्ययोऽपीति कश्चित् / धुरीण इति केवलादपीन इत्यन्यः / 1845 अश्चैकादेः // 7 // 16 // एकशब्दादेधुर इत्येतदन्ताद् द्वितीयान्ताद् वहत्यथै अः प्रत्ययश्चकारादीनश्च / एका एकस्य वा धूरेकधुरा / एका धूरस्मिन्नेकधुरम् / तां तद्वा वहति एकधुरः। एकधुरीणः। 1846 हलसीरादिकम् // 7 // 1 // 5 // हल सीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यथै इकण प्रत्ययः स्यात् / हलं वहति हालिकः / सैरिकः। 1847 शकटादण् // 717 // शकटशब्दादः द्वितीयान्ताद् वहत्यर्थेऽण प्रत्ययः स्यात् / शकटं वहति शाकटो गौः। मनु च तस्येदमिति शकटादण, हल सीरादिकणिति हलसीराभ्यामिकण च सिद्ध एव / यो हिः यद्वहति स तस्य संबंधी भवति / सत्यम् / रथवदेव तदन्तार्थमुपादानम् / तेनात्रापि द्विगौ द्वैखप्यं भवति /