SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [तद्धित - 1838 शीर्षच्छेदाद्यो वा 6 / 4 / 184 // शीर्षच्छेदाद् द्वितीयान्तानित्यमहत्यर्थे यः प्रत्ययो वा स्यात् ।।.शीर्षच्छेद नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकश्चौरः। ... 1869 शालीनकौपीनावाजीनम् // 6 / 4 / 185 // शालीन कौपीन आत्विजीन इत्येते शद्धास्तमहत्यर्थेईनञ्प्रत्ययान्ता निपात्यन्ते / नित्यमिति निवृत्तम् / निपातनस्येष्टविषयत्वात् / शालीन इति शालाप्रवेशनशद्धादीनञ् उत्तरपदस्य च लुक् / शालाप्रवेशनमर्हति शालीनः। अकारस्य वृद्धिनिमित्तत्वात् पुंवद्भावो न भवति / शालीनाभायः शालीनशरोऽधृष्टपर्यायः। कूपप्रवेशनमर्हति कौपीनः / कौपीनशद्धः पापकर्मणि सोमनीयपायूस्थे तदावरणे च चीवरखण्डे वर्तते / आविजीन इति ऋत्विजशब्दात् ऋस्विकर्मवादाद्वा ईनन् प्रत्ययः कर्मशब्दलोपश्च निपात्यते / ऋत्विजमर्हति आत्विज्रीमो यजमानः। ऋत्विकर्हिति आव/जीनः ऋत्विगेव वा। // इति श्रीसिद्धहैमबृहत्प्रक्रियायां तद्धित प्रकरणे इकणधिकारः :: समाप्तः // // अथ याधिकारः॥ 1840 यः // // 11 // अधिकारोऽयम् / यदित ऊर्ध्वमनुक्रमिष्यामो यावत्प्रकृतिसामान्यविषयमनुपात्तप्रकृतिविशेष प्रत्ययान्तरमीयोऽधिकरिष्यते तावत् तत्र य इत्येतदपवादविषयं परिहृत्याधिकृतं वेदितव्यम् / 1841 वहति रथयुगप्रासङ्गात् // 7 // 12 // तमित्यनुवर्तते / तमिति द्वितीयान्तेभ्यो रथ युग प्रासङ्ग इत्येतेभ्यो वहत्यर्थे यः प्रत्ययः स्यात् / रथं वहति रथ्यः / द्वौ रथी वहति द्विरथ्यः / युगं वहति युग्यः / इहानभिधानान्न भवति / कालसंज्ञकं युगं वहति राजा, युगं वहति मनुष्यः। कुप्यभिद्येति निपातनादेव युग्य इति सिद्धे इदमर्थविवक्षायामणबाधनार्थ युगग्रहणम् / यो हि युगं वहति स युगस्य संबंधी भवति / प्रसज्यत इति प्रासङ्गः। यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तद् वहति यः स प्रासङ्न्यः / यत्त्वन्यत् यत्प्रसङ्गादागतं प्रासङ्गमिति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy