________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 369 1830 स्तोमे डट् // 6 / 4 / 176 // संख्यावाचिनः प्रथमान्तात् तदस्य मानमित्यस्मिन् विषये स्तोमेऽभिधेये डट् प्रत्ययः स्यात् / ऋगादीनां समूहः स्तोमः। पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः / विंशः। पञ्चविंशः। त्रिंशः। पञ्चदशी पङ्क्तिः / डकारोऽन्त्यस्वरादिलोपार्थः / टकारो ड्यर्थः। 1831 तमर्हति // 6 / 4 / 177 // तमिति द्वितीयान्तादर्हदथै यथाविधि प्रत्ययः स्यात् / श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः / वैषिकः / वास्त्रिकः। वास्त्रयुगिकः। आभिषेचनिकः। बालिवर्दिकः। चामारिकः। शत्यः / शतिकः। साहस्रः। भोजनमहतीत्यादावनभिधान भवति / 1832 दण्डादेर्यः // 6 / 4 / 178 // दण्डादिभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे यः प्रत्ययः स्यात् / इकणोऽपवादः / दण्डमर्हति दण्ड्यः / मुसल्यः। 1833 यज्ञादियः॥६।४।१७९॥ यज्ञशद्वाद् द्वितीयान्तादहत्यर्थे इयः प्रत्ययः स्यात् / यज्ञमर्हति यज्ञियो देशो यजमानो वा / यज्ञो नाम क्रियासमुदायः कश्चित् तदभिव्यङ्ग्यं वापूर्वम् इत्याहुः। 1834 पात्रात्तौ // 6 / 4 / 180 // पात्रशब्दाद् द्वितीयान्तादहत्यर्थे तौ-य इय इत्येतो प्रत्ययौ स्याताम् / पात्रमर्हति पात्र्यः / पात्रियः / 1835 दक्षिणाकडङ्गरस्थालीबिलादीययौ ॥६॥४।१८१॥दक्षिणा कडङ्गर स्थालीविल इत्येतेभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे ईय य इत्येतौ प्रत्ययौ स्याताम् / दक्षिणामर्हति दक्षिणीयो दक्षिण्यो गुरुः। कडङ्गरीयो कडङ्गों गौः। कडङ्गरं माषादिकाष्ठम् / स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः पाकाहा॑ः इत्यर्थः। 1836 छेदादोर्नित्यम् // 6 / 4 / 182 // नित्यमित्यर्हतीत्यस्य विशेषणम् / छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययः स्यात् / छेदं नित्यमर्हति छैदिकः। भैदिकः। 1837 विरागाद्विरङ्गश्च // 6 / 4 / 183 // विरागशब्दाद् द्वितीयान्तानित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति / नित्यं विरागमर्हति वैरङ्गिकः।