________________ 368 सिद्धहैमबृहत्पक्रिया. [तद्धित 1826 नाम्नि // 6 / 4 / 172 // संख्यावाचिनस्तदस्य मानमित्यर्थे यथाविहितं प्रत्ययः स्यान्नाम्नि-समुदायश्चेन्नाम भवति / पञ्चेति संख्या मानमेषां पञ्चकाः शकुनयः / त्रिकाः शालङ्कायनाः। सप्तका ब्रह्मक्षाः। अष्टका राजर्षयः। योगविभागकरणात् संज्ञायां पञ्चैव पञ्चकाः त्रय एव त्रिका इति स्वार्थे एव वा प्रत्ययो भवति / 1827 विंशत्यादयः // 6 / 4 / 173 // विंशत्यादयः शब्दा नाम्नि विषये तदस्य मानमित्यर्थे साधवो भवन्ति / द्वेर्दशदर्थे विभावः शतिश्च प्रत्ययः। द्वौ दशती मानमेषां संख्येयानामस्य वा संख्यानस्य विंशतिः। स्विभावः / शच्च प्रत्ययः। त्रयो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य त्रिंशत् / चतुरश्चत्वारिंभावः शच्च प्रत्ययः / चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य चत्वारिंशत् / पञ्चन आत्वं च / पञ्च दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पञ्चाशत् / षषस्तिः षष् च / षट् दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पष्टिः / सप्तनस्तिः। सप्त दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य सप्ततिः। अष्टनोऽशी च / अष्टौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य अशीतिः। नवनस्तिः। नव दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य नवतिः। दशनः शभावस्तश्च प्रत्ययः / दश दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य शतम् / दश शतानि मानमेषां संख्येयानामस्य वा संख्यानस्य सहस्रम् / एवं दश सहस्राण्ययुतम् / दशायुतानि नियुतम् / दश नियुतानि प्रयुतम् / दश प्रयुतान्यर्बुदम् / दशार्बुदानि न्यर्बुदम् / बहुवचनालक्षकोटिखर्वनिखर्वादयो भवन्ति / पञ्च पादा मानमस्याः पङ्क्तिश्छन्दः / पिपीलिकापङ्क्तिरित्यादौ तु पचुण विस्तारे इत्यस्मात् क्त्यन्ताद् भवति / यदत्र लक्षणेनानुपपन्नं तत्सर्व निपातनात् सिद्धम् / लिङ्गसंख्यानियमश्च विंशत्याद्या शतादिति सिद्धः / 1828 3शं चात्वारिंशम् // 64 / 174 // त्रिंशच्चत्वारिंशदित्येताभ्यां तदस्य मानमित्यर्थे डण् निपात्यते प्रत्ययान्तं चेत्कस्यचिन्नाम भवति / त्रिंशदध्याया मानमेषां त्रैशानि चात्वारिंशानि कानिचिद् ब्राह्मणान्येवमुच्यन्ते। 1829 पञ्चद्दशद्वर्गे वा // 6 // 4 / 175 // पञ्चदशदित्येतो शब्दौ तदस्य मानमित्येतस्मिन् विपये वर्गेऽभिधेये डत्मत्ययान्तौ वा निपात्येते। पक्षे को भवति / पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः / पञ्चको वर्गः। दशद्वर्गः। दशको वर्गः /