SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 367 1823 मानम् // 6 / 4 / 169 / / सोऽस्येति वर्तते / स इति प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्याद्यत् तत्पथमान्तं तच्चेन्मानं भवति / मीयते येन तन्मानम् / प्रस्थो मानमस्य प्रास्थिको राशिः। द्रौणिकः / खारीकः / खारीशतिकः / खारीसहस्रिकः / वर्षशतं मानमस्य वार्षशतिको देवदत्तः / वार्षसहस्रिकः / पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाञ्चलोहितिकम् / पाश्चकलायिकम् / अनयोः संज्ञाशद्वत्वाद् अनाम्न्यद्विरिति लुप न भवति / अथ मासो मानमस्य वर्ष मानमस्येत्यादौ कस्मात् प्रत्ययो न भवति ? न कालो मानग्रहणेन गृह्यते 'मानसंवत्सरस्य' इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् / 1824 जीवितस्य सन् // 6 // 4 / 170 // जीवितस्य यन्मानं ततः प्रथमान्तादस्येति पष्ठयर्थे यथाविहितं प्रत्ययः स्यात् स च सन्-तस्य 'अनाम्न्यद्विः प्लुप्' इति लुप प्राप्ता न भवतीत्यर्थः। षष्टिजीवितमानमस्य पाष्टिकः। साप्ततिकः। वार्षशतिकः। वार्षसहस्रिकः। द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः। त्रिषाष्टिकः। द्विसाप्ततिकः। त्रिसाप्ततिकः। द्विवार्षशतिकः। त्रिवार्षशतिकः। द्विवार्षसहस्रिकः। त्रिवार्षसहस्रिकः। कथं पुनः षष्टयादयो जीवितमानं भवन्ति ? वृत्तौ वर्षशद्धलोपात / यथा शतायुबै पुरुष इति / एवं तर्हि मानमित्यनेनैव सिद्धे किमर्थमिदम् ? नैवम् / प्रास्थिक इत्यादौ ब्रीह्यादय एव श्रेयाः त एव च प्रत्ययार्थः / अत्र तु जीवितं मेयं पुरुषस्तु प्रत्ययार्थ इत्येतदर्थ लुबभावार्थ च / / 1825 संख्यायाः संघसूत्रपाठे // 6 / 4 / 171 // संख्यावाचिनः प्रथमान्तादस्य मानमित्यर्थे यथाविहितं प्रत्ययः स्याद्यत्तदस्येति निर्दिष्टं तच्चेत्संघः सूत्रं पाठो वा भवति / संघः प्राणिनां समूहः। सूत्रं शास्त्रग्रन्थः। पाठोऽधीतिरध्ययनम् / पञ्च गावो मानमस्य पञ्चकः संघः / सप्तकः। अष्टावध्याया मानमस्याष्टकं पाणिनीयं सूत्रम् / दशकं वैयाघ्रपदीयम् / शतकं निदानम् / अष्टौ रूपाणि वारा मानमस्याष्टकः पाठोऽधीतः। संघमूत्रपाठ इति किम् / पञ्च वर्णा मानमस्य पञ्चतयं पदम् / पदं न संघो न मूत्रं न पाठ इति को न भवति / अपि तु तयडेव / एवं चतुष्टयी शद्धानां प्रवृत्तिः / पश्चादीनां संख्येयानामवयवतया संघादेर्मानखान्मानमित्यनेनैव सिद्धयति परखात्तु तयट पामोति तद्वाधनार्थ वचनम् / न चातिप्रसङ्गः / अभेदरूपापन्ने संघादौ तयायटोर्बाधकमिदम् / भेदरूपापन्ने तु तयडेव / चतुष्टये ब्राह्मणक्षत्रियविट्शूद्राः। स्याद्वादाश्रयणाचात्र भेदाभेदयोः संभव इति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy