________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धितद्वे पात्रे पचति संभवत्यवहरति वा द्विपात्रीणः / द्विपात्रिकः / द्विपात्रः / द्विपात्रीणा / द्विपात्रिकी। द्विपात्री। याचितीना / याचितिका / व्याचिता / आचितान्ताद् डोर्न भवति / अविस्ताचितकम्बल्यादिति प्रतिषेधात् / याढकीना। याढकिकी / द्याढकी। टकारो ङन्यर्थः। 1819 कुलिजादा लुप् च / / 6 / 4 / 166 // कुलिजान्ताद् द्विगोद्वितीयान्तात् पचदादिषु त्रिष्वर्थेषु ईन इकट् इत्यैतौ प्रत्ययौ वा स्याताम् / पक्षे इकण् / तस्य च लुप वा भवति / तेन चातुरूप्यं संपद्यते / द्वे कुलिजे पचति संभवत्यवहरति वा द्विकुलिजीना / द्विकुलिजिकी / पक्षे द्विकुलिजी / द्वैकुलिजिकी / लुपि 'परिमाण' इत्यादिना ङीः / अन्ये तु लुब्बिकल्पं न मन्यन्ते / तन्मते त्रैरूप्यमेव / 1820 वंशादेर्भाराद्धरदहदावहत्सु // 6 / 4 / 166 // बंशादिभ्यः परो यो भारशब्दस्तदन्ताद् द्वितीयान्तानानो हरति वहति आवहति चार्थे यथाविहितं प्रत्ययः स्यात् / वंशभारं हरति वहति आवहति वा वांशभारिकः / कौटभारिकः। वंशादेरिति किम् / भारं वहति / भारादिति किम् / वंशं हरति / अपरोऽर्थःभारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो हरदादिष्वर्थेषु यथाविहितं प्रत्ययः स्यात् / भारभूतान् बंशान् हरति वहति आवहति वा वांशिकः। कौटिकः / वाल्वजिकः। भारादिति किम् / एकं वंशं हरति / हरतिर्देशान्तरपापणे चौर्ये वा / वहतिरुक्षिप्य धारणे / आवहतिरुपादाने / बहुवचनमर्थत्रयसूचनार्थम् / 1821 द्रव्यवस्नात् केकम् // 6 / 4 / 167 / द्रव्य वस्त्र इत्येताभ्यां द्वितीयान्ताभ्यां हरदादिष्वर्थेषु यथासंख्यं क इक इत्येतौ प्रत्ययौ स्याताम् / द्रव्यं हरति वहति आवहति वा द्रव्यकः। एवं वस्निकः। 1822 सोऽस्य भृतिवस्नांशम् // 6 / 4 / 168 // स इति प्रथमान्तादस्येति षष्ठयथै यथाविहितमिकणादयः स्युः, यत्तत्पथमान्तं तच्चेद् भृतिर्वस्नमंशो वा भवति / भृतिवेतनम् / वस्नो नियतकालक्रयमूल्यम् / अंशो भागः / पञ्चास्य भृतिः पञ्चकः कर्मकरः। पञ्चास्य वस्नं पञ्चकः पटः। पञ्चास्यांशाः पञ्चकं नगरम् / एवं सप्तकः / अष्टकाशत्यः। शतिकः। साहस्रः। प्रास्थिकः।