SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 366 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. चेत्तद् भवति / इकणिकटोरपवादः। द्वितीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं द्वितीयिकः / तृतीयिकः / पञ्चमिकः / षष्ठिकः। अर्ध-अधिकः। अधिका स्त्री / अर्धशब्दो रूपकार्धे रूढः / 1814 भागायेकौ // 6 / 4 / 160 // भागशब्दात् तदस्मिन्नस्मै वा वृद्धयादीनामन्यतमं देयमिति विषये य इक इत्येतौ प्रत्ययौ स्याताम् इकणोऽपवादौ / भागोऽस्मिन्नस्मै वा वृद्धयादीनामन्यतमं देयं भाग्यः भागिकः। भागिका स्त्री / भागशब्दोऽपि रूपकार्धस्य वाचकः। 1818 तं पचति द्रोणावा // 64 / 161 // तमिति द्वितीयान्ताद् द्रोणशब्दात् पचत्यर्थे अब् प्रत्ययो वा स्यात् / पक्षे इकण् / द्रोणं पचति द्रौणः / द्रौणिकः / द्रौणिकी स्थाली गृहिणी वा। द्वौ द्रोणौ पचति द्विद्रोणी / 'अनाम्न्यद्विः प्लुप् ' इति अत्रिकणोलुप् / 1816 संभवदवहरतोश्च // 6 / 4 / 162 // तमिति द्वितीयान्तानाम्नः पचति संभवदवहरतोश्चार्थयोर्यथाविहितमिकणादयः स्युः। तत्राधेयस्य प्रमाणानतिरेकेण धारणं संभवः / अतिरेकेणावहारः। प्रस्थं पचति संभवत्यवहरति वा पास्थिकः कटाहः / प्रास्थिकी स्थाली / संभवतिः अकर्मकः सकर्मकश्च संभवति / तत्र सकर्मक इह ग्राह्यः। संभवत्यवगृह्णातीत्यर्थः। चकारः पचता संभवदवहरतोः समुच्चयार्थः / तेनोत्तरत्रार्थत्रयस्याप्यनुत्तिः। 1817 पात्राचिताढकादीनो वा // 6 / 4 / 163 // पात्र आचित आढक इत्येतेभ्यो द्वितीयान्तेभ्यः पचत्संभवदवहरत्स्वर्थेषु ईनः प्रत्ययो वा स्यात् / पक्षे इकण् / पात्रं पचति संभवत्यवहरति वा पात्रीणः / पात्रीणा। पात्रिकः / पात्रिकी स्थाली / आचितीना / आचितिकी। आढकीना। आढकिकी। पात्रादयः परिमाणशब्दाः। . 1818 द्विगोरीनेकटौ वा // 6 / 4 / 164 // पात्राचिताढकान्ताद् द्विगोड़ेितीयान्तात् पचदादिषु त्रिष्वर्थेषु ईन इकट् इत्येतौ प्रत्ययौ वा स्याताम् / पक्षे इकण् / तस्य च ' अनाम्न्यद्विः प्लुप्' इति लुप् नानयोविधानसामर्थ्यात् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy