________________ सिद्धहैमबृहत्प्रक्रिया. तद्धित 'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः / . आयामस्तु प्रमाणं स्यात् संख्या वाह्या तु सर्वतः ' / इति संख्यापरिमाणयोर्विशेषः। अश्वादि-आश्विकः / गाणिकः। वासुकः / 1810 पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् // 6 / 4 / 156 / / पृथिवीसर्वभूमिशब्दाभ्यां षष्ठयन्ताभ्यामीशज्ञातयोस्तस्य हेतुः संयोग उत्पात इत्यस्मिन् विषये चाञ् प्रत्ययः स्यात् / पृथिव्या ईश पार्थिवः / सर्वभूमे; सार्वभौमः। सर्वभूमेरनुशतिकादित्वादुभयपददृद्धिः / पृथिव्या ज्ञातः पार्थिवः। कर्तरि षष्ठी संबन्धविवक्षायां वा / एवं सार्वभौमः / पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः / सार्वभौमः / ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशंकाव्यवच्छेदार्थम् / .. 1811 लोकसर्वलोकाज्ज्ञाते // 64 / 157 // लोकसर्वलोकशब्दाभ्यां तस्येति षष्ठयन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकण प्रत्ययः स्यात् / लोकस्य ज्ञातः लौकिकः / सार्वलौकिकः। सर्वलोकशब्दस्यानुशतिकादित्वादुभयपदवृद्धिः / 1812 तदत्रास्मै वा वृद्धयायलाभोपदाशुल्क देयम् // 6 / 4 / 158|| तदिति प्रथमान्तादत्रेति सप्तम्यर्थे अस्मै इति चतुर्थ्यर्थे वा यथाविहितं प्रत्ययः स्यात् यत्तत्प्रथमान्तं तच्चेद् वृद्धिरायो लाभ उपदा शुल्कं वा देयम् भवति / अधमणेनोत्तमय गृहीतधनातिरिक्तं देयं वृद्धिः / ग्रामादिषु स्वामिग्राह्यो भाग आयः / पटादीनामुपादानं मूल्यातिरिक्तं प्राप्तं द्रव्यं लाभः / उपदा उत्कोचः / लञ्च उत्कोट इति यावत् / वणिजां रक्षानिर्देशो राजभागः शुल्कम् / पञ्चास्मिन् शते वृद्धिः पश्चकं शतम् / पञ्चास्मिन् ग्रामे आयः पञ्चको ग्रामः / पञ्चास्मिन् पटे लाभः पञ्चकः पटः / पञ्चास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः / पञ्चास्मिन् शते शुल्कं पञ्चकं शतम् / एवं शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा शत्यम् शतिकम् / साहस्रम् / प्रास्थिकम् / द्रौणिकम् / अस्मै-पश्चास्मै देवदत्ताय वृद्धिरायो लाभ उपदा शुल्कं वा देयं पञ्चको देवदत्तः / शत्यः / शतिकः। साहस्रः प्रास्थिकः / द्रौणिकः। वृद्धयादिग्रहणं किम् / पञ्च मूल्यमस्मिन्नस्मै वा दीयते। . 1813 पूरणा दिकः // 6 / 4 / 189 // पूरणप्रत्ययान्तादर्दशब्दाच्च तदिति प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यर्थयोरिकः प्रत्ययः स्यात् यत्तत्पथमान्तं वृद्धयादि