________________ प्रकरणम् सिद्धहैमबृहत्पक्रिया. 363 1807 तस्य वापे // 6 / 4 / 171 / / तस्येति षष्ठयन्ताद् वापेऽर्थे यथाविधि इकणादयः प्रत्ययाः स्युः / उप्यते अस्मिनिति वापः क्षेत्रम् / प्रस्थस्य वापः प्रास्थिकम् / द्रौणिकम् / मौगिकम् / शत्यम् / शतिकम् / खारीकम् / 1806 वातपित्तश्लेष्मसंनिपाताच्छमनकोपने // 6 / 4 / 152 // वातादिभ्यस्तस्येति षष्ठयन्तेभ्यः शमने कोपने चार्थे यथाविहितमिकण् प्रत्ययः स्यात् / शाम्यति येन तच्छमनम् / कुप्यति येन तत्कोपनम् / वातस्य शमनं कोपनं वा वातिकम् / पैत्तिकम् / श्लैष्मिकम् / सांनिपातिकम् / पथ्यमपथ्यं च द्रव्यायेवमभिधीयते प्रकरणात्तु विशेषगतिः। 1807 हेतौ संयोगोत्पाते // 6 / 4153 // तस्येति षष्ठयन्ताद्धेतावर्थे यथाविहितं प्रत्ययः स्यात् योऽसौ हेतुः स चेत् संयोग उत्पातो वा / हेतुनिमित्तं संयोगः संबंधः। प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः / शतस्य हेतुरीश्वरसंयोगः शत्यः / शतिकः / साहस्रः। उत्पात-सोमग्रहणस्य हेतुरुत्पातः सोभग्रहणिको भूमिकम्पः / सांग्रामिकमिन्द्रधनुः / सौभिक्षिकः परिवेषः। शतस्य हेतुर्दक्षिणालिस्पन्दनम् शत्यं शतिकं साहस्रम् / संयोगोत्पात इति किम् / शतस्य हेतुश्चैत्रः। . 1808 पुत्रायेयौ / / 6 / 4 / 154 // पुत्रशब्दात् तस्येति षष्ठयन्ताद्धतावर्थे य ईय इत्येतो प्रत्ययौ स्याताम् स चेद्धेतुः संयोग उत्पातो वा भवति / पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः / पुत्रीयः / 1809 द्विस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणावादेः // 6 / 4 / 156 // संख्यापरिमाणाश्वादिवर्जिताद् द्विस्वरान्नानो ब्रह्मवर्चसशब्दाच तस्येति षष्ठयन्ताद्धतावर्थे यः प्रत्ययः स्यात् स चेद्धेतुः संयोग उत्पातो वा भवति / इकणादीनामपवादः / धनस्य हेतुः संयोग उत्पातो वा धन्यः / यशस्यः / आयुष्यः। वात्या विद्युत् / ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः / कथं गोर्हेतुः संयोग उत्पातो वा गव्यः ? द्विस्वराभावात् 'गोः स्वरे यः' इति भविष्यति / द्विस्वरेति किम् / विजयस्य हेतुः संयोग उत्पातो वा वैजयिकः / ब्रह्मवर्चसग्रहणमद्विस्वरार्थम् / असंख्यापरिमाणाश्चादेरिति किम् / संख्या-पश्चानां हेतुः संयोग उत्पातो वा पञ्चकः / सप्तकः / परिमाण-त्रास्थिकः / खारीकः /