SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 362 सिद्धहैमबृहत्पक्रिया. [तद्धित रस्तत्र गृह्यते अयं तु द्विगुसंबंधीति न भवति / द्विमाष्यम् / त्रिभाष्यम् / अध्यर्धमाष्यम् / 1803 खारीकाकणीभ्यः कच् // 6 / 4 / 149 // खारी काकणी इत्येवमन्ताद् द्विगोर्बहुवचनात् केवलाभ्यां च खारीकाकणीभ्यामाईदर्थे कच् प्रत्ययः स्यात् / विधानसामर्थ्याच्च न लुप् / द्वाभ्यां खारीभ्यां क्रीतं द्विखारीकम् / द्विकाकणीकम् / त्रिवारीकम् / त्रिकाकणीकम् / अध्यर्थखारीकम् / अध्यर्धकाकणीकम् / अर्धतृतीयखारीकम् / अर्धतृतीयकाकणीकम् / केवलाभ्यां-खारीकम् / काकणीकम् / चकारो न कचीति प्रतिषेधार्थः / 1803 मूल्यैः क्रीते // 6 / 4 / 150 // मूल्यवाचिनो निर्देशादेव तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्ययाः स्युः। प्रस्थेन क्रीतं प्रास्थिकम् / सप्तत्या साप्ततिकम् / आशीतिकम् / नैष्किकम् / पाणिकम् / पादिकम् / त्रिंशकम् / विंशकम् / द्विकम् / त्रिकम् / शत्यम् / शतिकम् / मूल्यैरिति किम् / देवदत्तेन क्रीतम् / पाणिना क्रीतम् / वृत्तौ संख्याविशेषानवगमात् द्विवचनबहुवचनान्तान्न भवति / प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति / यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव / द्वाभ्यां क्रीतं द्विकम् / त्रिकम् / द्वाभ्यां प्रस्थाभ्यां क्रीतं द्विप्रस्थम् / * त्रिप्रस्थम् / यथा मुद्गैः क्रीतं मौगिकम् / माषिकम् / न ह्येकेन मुद्गेन माषण वा क्रयः संभवति। 1804 अर्धात् परिमाणस्यानतौ वा त्वादेः // 7 // 4 // 20 // अर्धशब्दात परस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्यानतोऽकाररहितस्य वृद्धिः स्याद्वा त्वादेः-परिमाणात् पूर्वस्य त्वधशब्दस्य वा / अर्धकुडवेन क्रीतम् अर्धकौडविकम् / आर्धकौडविकम् / परिमाणस्येति किम् / अर्धक्रोशः प्रयोजनमस्य आक्रोशिकम् / अनत इति किम् / अर्धपस्थिकम् / आर्धपस्थिकम् / आदिविकल्प उत्तरवृद्धयनपेक्ष इति भवत्येव / अतः प्रतिषेधादाकारस्य वृद्धिर्भवत्येव / अर्धखायाँ भवः अर्धखारीकः। पुनरत्र को विशेषः सत्यामसत्यां वा वृद्धौ ? उच्यते / अर्धखारी भार्यास्य अर्धखारीभार्य इति। यद्यत्र वृद्धिप्रतिषेधः स्यात् अयं तद्धितो न वृद्धिहेतुरिति पुंवद्भावप्रतिषेधो न स्यात् / यथार्थप्रस्थे भवार्धप्रस्थी सा भार्याऽस्य अर्धप्रस्थभार्य इति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy