SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पकरणम् ] सिद्धहैमबृहत्मक्रिया. भ्यां क्रीतं द्विसुवर्णम् / विसौवणिकम् / अध्यर्धसुवर्णम् / अध्यर्धसौवर्णिकम् / द्विकार्षापणम् / द्विकार्षापणिकम् / विप्रति / द्विपतिकम् / अध्यर्धकार्षापणम् / अध्यर्धकार्षापणिकम् / अध्यर्धप्रतिकम् / 1797 द्वित्रिबहोर्निष्काबस्तात् // 3 / 4 / 144 // दि त्रि बहु इत्येतेभ्यः परौ यौ निष्कविस्तशब्दौ तदन्ताद् द्विगोराईदर्थे उत्पन्नस्य प्रत्ययस्य लुप् वा स्यानतु द्विः। द्विनिष्कम् / दिनष्किम् / त्रिनिष्कम् / त्रिनैष्किकम् / बहुनिष्कम् / बहुनैष्किकम् / बिबिस्तम् / द्विवैस्तिकम् / त्रिविस्तम् / त्रिवैस्तिकम् / बहुबिस्तम् / बहुबैस्तिकम् / 1798 शताद्यः॥६॥४।१४५॥ शतान्ताद् द्विगोराईदर्थे यः प्रत्ययो वा स्यात् / पक्षे संख्यालक्षणः कः। तस्य लुप् भवति / अस्य तु विधानसामर्थ्यान्न भवति / द्वाभ्यां शताभ्यां क्रीतं द्विशत्यम् / द्विशतम् / अध्यर्धशत्यम्। अध्यर्धशतम् / अर्धषष्ठशत्यम् / अर्धषष्ठशतम् / 1799 शाणात् // 6 // 4 // 146 // शाणान्ताद् द्विगोराईदर्थे यः प्रत्ययो वा स्यात् / पक्षे इकण्। तस्य लुप् / अस्य तु न भवति विधानसामर्थ्यात् / पञ्चशाण्यम् / पञ्चशाणम् / अध्यर्धशाण्यम् / अध्यर्धशाणम् / अर्धपश्चमशाण्यम् / अर्धपञ्चमशाणम् / योगविभाग उत्तरार्थः। 1800 द्वित्र्यााण वा // 6 / 4 / 147 / / द्वित्रि इत्येतत्पूर्वो यः शाणशब्द. स्तदन्ताद् द्विगोराईदर्थे य अण् इत्येतो प्रत्ययौ वा स्याताम् / वाग्रहणमुत्तरत्र वानिवृत्त्यर्थम् / द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यम् / द्वैशाणम् / पक्षे इकण तस्य लुप् / द्विशाणम् / एवं त्रिशाण्यम् / त्रैशाणम् / त्रिशाणम् / एवं च त्रैरूप्यं भवति / 1801 पणपादमाषाद्यः // 6 / 4 / 148 / / पण पाद माष इत्येवमन्ताद् द्विगोराईदर्थे यः प्रत्ययः स्यात् / विधानसामर्थ्यान्न लुप् / द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम् / द्विपाद्यम् / त्रिपण्यम् / त्रिपाद्यम् / अध्यर्धपण्यम् / अध्यर्धपाद्यम् / अर्धषष्ठपण्यम् / माषपणसाहचर्यात् पादः परिमाणं गृह्यते न पाण्यङ्गम् / तेन हिमहतिकापीति पद्भावो न भवति, तत्र प्राण्यङ्गस्यैव ग्रहणात्। यद्वा पादसंबंधी यका
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy