________________ 360 सिद्धहैमबृहत्पक्रिया. [तद्धित 1791 विंशतिकात् // 6 // 4 / 139 // विंशतिकशब्दादाईदर्थेऽञ् प्रत्ययः स्यात् / विंशतिर्मानमस्य विंशतिकम् / तेन क्रीतं वैशतिकम् / योगविभाग उत्तरार्थः। 1792 दिगोरीनः // 6 / 4 / 140 // विंशतिकशब्दान्ताद् द्विगोराहदर्थे ईनः प्रत्ययः स्यात् / अणोऽपवादः। विधानसामर्थ्याल्लुब् न भवति / द्विविंशतिकीनम् / त्रिविंशतिकीनम् / अध्यर्धविंशतिकीनम् / अर्धपञ्चमविंशतिकीनम् / 1793 अनाम्न्यदिः प्लुप् // 6 // 4 / 141 // द्विगोः समासादार्हदर्थे उत्पबस्य प्रत्ययस्य पिल्लुप सकृत् स्यान्न तु द्विः अनाम्नि-न चेत् प्रत्ययान्तं कस्यच्चिनाम भवति / द्वाभ्यां कंसाभ्यां द्विकंस्या वा क्रीतं द्विकंसम् / त्रिकंसम् / अध्यर्धकंसम् / अर्धपश्चमकंसम् / द्विशूर्पम् / त्रिशूर्पम् / अध्यर्धशूर्पम् / अर्धपश्चमशूर्पम् / अद्विरिति किम् / द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् / अञ् लुप् / द्विशूर्पण क्रीतं द्विशौपिकम् / अनाम्नीति किम् / पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् / जातिश्च णीत्यादिना पुंवद्भावः / पञ्च कलायाः परिमाणमस्य पाञ्चकलायिकम् / परिमाणविशेषनाम्नी एते / अतएव मानसंवत्सरेत्यादिना नोत्तरपदवृद्धिः / लुपः पित्त्वात् पञ्चभिः गार्गीभिः क्रीतः पश्चगर्ग इत्यत्रेकणो लुपि / 1794 क्यङ्मानिपित्तद्धिते // 32 // 50 // क्याङ प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिङ्गशब्दोऽनूङ् पुंवत् स्यात् / इत्यनेन पुंवद्भावो भवति / संख्यान्ताद् द्विगोलपं नेच्छन्त्येके / द्वाभ्यां षष्टिभ्यां कीतं द्विषाष्टिकम् / त्रिषाष्टिकम् / - 1795 नवाणः 6 / 4 / 142 // द्विगोः परस्याईदर्थे विहितस्याणः पिल्लुप् वा स्यान्न तु द्विः / द्विसहस्रम् / दिसाहस्रम् / अध्यर्धसहस्रम्। अध्यर्धसाहस्रम् / अर्धषष्ठसहस्रम् / अर्धषष्ठसाहस्रम्। द्विशतमानम्। द्विशातमानम् / अध्यर्धशतमानम् / अध्यर्धशातमानम् / अर्धषष्ठशतमानम् / अर्धषष्ठशातमानम् / अण इति किम् / द्वौ द्रोणौ पचति द्विद्रोणः। अध्यर्धद्रोणः। पूर्वेण नित्यमेव लुप् / / 1796 सुवर्णकार्षापणात् // 64 / 143 // सुवर्णान्तात् कार्षापणान्ताच द्विगोः परस्याईदर्थे विहितस्य प्रत्ययस्य वा लुप् स्यात् न तु द्विः। द्वाभ्यां सुवर्णा