________________ 24 सिद्धहैमबृहत्मक्रिया [व्यंजनसन्धि केचित्तु टत्वमपीच्छन्ति / षट्त्सीदन्ति / पक्षे-षट्सीदन्ति। भवान्त्साधुः / भवान्साधुः / स इति किम् / षड्भवन्ति / अश्व इति किम् / षट्श्चयोतन्ति। __ 127 नः शिश्श् / / 1 / 3 / 19 // पदान्ते वर्तमानस्य नकारस्य स्थाने शकारे न् इत्ययमादेशो वा स्यात, अश्वः-चावयवश्चेन्न स्यात् / अनेन सूत्रेण 'भवान् शूरः' इत्यत्र वैकल्पिके श्चादेशे कृते 'प्रथमादधुटि शश्छः' इत्यनेन छत्वविकल्पे च पक्षे 128 धुटो धुटि स्वे वा // 13 // 48 // व्यंजनात् परस्य धुटो धुटि स्वे परे लुग्वा स्यात् / अनेन चकारलोपः / तदेवं श्चादेशछत्वचलोपानां विकल्पनात् चातुरूप्यं भवति / भवाञ्छूरः / भवाञ्च्छ्रः / भवाञ्च् शूरः। भवाञ् शूरः। आदेशबलात् कत्वं न भवति / शीति किम् / भवान् करोति / अश्च इत्येव / भवाञ्योतति। 129 हस्वान् झ्नो वे // 1 / 3 / 27 / इस्वात् परेषां पदान्ते वर्तमानानां ङ्णन इत्येषां वर्णानां स्थाने स्वरे परे द्वे रूपे स्याताम् / क्रुङङास्ते / सुगण्णिह। पचन्नास्ते / कुर्वन्नास्ते, कृषन्नास्ते इत्यत्र तु बहिरङ्गस्य द्वित्वस्यासिद्धत्वाण्णत्वं न। इस्वादिति किम् / माङास्ते / झ्न इति किम् / त्वमत्र / स्वर इत्येव / प्रत्यङ्शेते / पदान्त इत्येव / त्रहणौ, दण्डिनौ, उणादयः इत्यादौ स्वरूपनिर्देशात् , 'अनतः' इत्यादौ त्वविधानबलान भवति / 130 नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुटपरे // 1 // 38 // पदांते वर्तमानस्य प्रशान्वर्जितशब्दसंबंधिनो नकारस्य स्थाने चटतेषु सद्वितीयेवधुट्परेषु परेषु यथासंख्यं शषस इत्येते आदेशाः स्युः, अनुस्वारानुनासिको च पूर्वस्य-अनुस्वार आगमोऽनुनासिकश्चादेशः पूर्वस्य क्रमेण भवत इत्यर्थः / भवॉश्चरति / भवांश्वरति / भवाँश्छादयति / भवाँशछादयति / भवाँष्टीकते / भवांष्टीकते / भवाँष्ठकारः / भवांष्ठकारः / भवाँस्तरति / भवांस्तरति / भवाँस्थुडति / भवांस्थुडति / अप्रशान इति किम् / प्रशान्तरति। अधुट्पर इति किम् / भवान्त्सरुकः। पदान्त इत्येव / भवन्तः। विरामे प्रतिषेधस्य वक्ष्यमाणत्वादिह न भवति / भवान् चरति / 131 पुमोशिट्यघोषेऽख्यागि रः // 1 / 3 / 9 // पुमिति पुम्सः कृतसंयोगान्तलोपस्यानुकरणम् / अधुट्परेऽघोषे शिट्रव्याग्वर्जिते परे पुमित्येतस्य रोऽन्तादेशः स्यादनुस्वारानुनासिकौ च पूर्वस्य /