SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 119 ततो हश्चतुर्थः // 1 / 3 / 3 // पदान्ते वर्तमानात् तृतीयात् परस्य हकारस्य स्थाने प्रत्यासत्या पूर्वसवर्गश्चतुर्थो वा स्यात् / वाग्धीनः, वाग्हीनः / तत इति किम् / प्राङ् हसति / / 120 प्रथमादधुटि शश्छः // 1 // 34 // पदान्ते वर्तमानात् प्रथमात् परस्य शकारस्य स्थानेऽधुटि परे छकारादेशो वा स्यात् / वाक्छूरः / वाक्शूरः। प्रथमादिति किम् / प्राङ् शूरः / अधुटीति किम् / वाक्श्योतति / 121 तो मुमो व्यंजने स्वौ // 1 // 3 // 14 // मु इत्यागमस्य पदान्तस्थस्य च मस्य व्यंजने परे तस्यैव स्वावनुस्वाराऽनुनासिकौ पर्यायेण स्याताम् / मग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थम् / स्वेत्यनुनासिकस्य विशेषणम्, नानुस्वारस्यासंभवात / चंक्रम्यते / चक्रम्यते / वहंलिहः / वहँललिहः / पदान्त इत्येव / गम्यते / व्यंजन इति किम् / किमत्र / स्वाविति किम् / रंरम्यते / 122 मनयवलपरे हे // 13 // 15 // मनयवलपरे हकारे परे पदांते वर्तमानस्य मकारस्य स्थानेऽनुस्वाराऽनुनासिको स्वौ पर्यायेण स्याताम् / किं मलयति / . किम् मलयति / किं न्हुते / किन् न्हुते / किम् ह्यः / किय ह्यः। किं वलयति / कि ह्वलयति / किं लादते / किलें लादते / मादिपर इति किम् / किं हसति / ह इति किम् / किं ज्वलति। 123 सम्राट् // 1 // 3 // 16 // समो मकारस्य किबंते राजतौ परेऽनुस्वाराभावो निपात्यते / सम्राड् भरतः। 124 लो कटावन्तौ शिटि न वा // 1 // 3 // 17 // पदान्ते वर्तमानयोर्डकारणकारयोः शिटि परे यथासंख्यं क् ट् इत्येतावन्तौ स्याताम् / 125 शिट्याद्यस्य द्वितीयो वा // 1 // 359 // आद्यस्य-प्रथमस्प स्थाने शिटि परे द्वितीयो वा स्यात् / / प्राक् षण्डे, प्राव पण्डे / प्राङ् षण्डे / सुगण्ट् पाङ् करोषि / पदान्त इत्येव नभषि / 126 ड्नः सः त्सोऽश्वः // 13 // 18 // पदान्ते वर्तमानाड् डकारान् नकाराच परस्य सकास्य स्थाने त्स इत्ययं तकारादिः सकारादेशो वा स्यात् , अश्व:संयोगावयवश्चेत् सकारो न स्यात् / षड्त्सीदन्ति / डकारनिर्देशाट्टत्वं न भवति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy