________________ सिद्धहैमबृहत्मक्रिया. [ व्यंजनसन्धि ईट्टे / अनामनगरीनवतेरिति किम् / षण्णाम् / पण्णगरी / पण्णवतिः / नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव / षड् नाम / 113 षि तवर्गस्य // 1 // 3 / 64 // पदान्ते वर्तमानस्य तवर्गस्य स्थाने षकारे परे यदुक्तं तन्न स्यात् / तीर्थकृत् पोडशः शांतिः / पीति किम् / तट्टीकते / तवर्गस्येति किम् / सर्पिष्षु / वाक् ङवते, इत्यत्र धुटस्तृतीय इत्यनेन गत्वे 114 तृतीयस्य पञ्चमे // 1 // 3 // 1 // वेति पदान्त इति अनुनासिक इति चानुवर्तते / पदान्ते वर्तमानस्य वर्गतृतीयस्य वर्गपञ्चमे परेऽनुनासिको वा स्यात् , स्थान्यासन्नः। वाङ् डवते / वाग् ङवते / तृतीयस्येति किम् / स्वर्नयति / पदान्त इत्येव / विद्मः। पञ्चम इति किम् / वागत्र / केचितु व्यंजनस्य स्थानेऽनुनासिके परे वाऽनुनासिकमिच्छन्ति, तस्य तु 'हस्वान्ङग्णनो द्वे' (1-3-27) इति द्वित्वं च नेच्छन्ति, तन्मते व इति / खD इति / ननु षण्नया इत्यादौ 'अदी Cद् विरामैकव्यंजने' इत्यनेन तृतीयस्य द्वित्वे कृतेऽन्तस्यानुनासिके च तृतीयस्यापि श्रुतिः पामोति / नैवम् / अनुनासिके कृते पश्चाद् द्विखस्य भावात् / तेन षण्ण नयाः, षड्ड्नयाः इत्यादि सिद्धम् / 115 प्रत्यये च // 1 // 3 // 2 // पदान्ते वर्तमानस्य तृतीयस्य स्थाने पञ्चमादौ प्रत्यये परेऽनुनासिकः स्यात् / नित्यार्थ वचनम् / वाङ् मयम् / चकार उत्तरत्र (ततो हश्चतुर्थ इत्यादौ) विकल्पानुवृत्त्यर्थः। 116 लि लौ // 1 // 3 // 65 // पदांते वर्तमानस्य तवर्गस्य स्थाने लकारे परे स्थान्यासन्नावनुनासिकाऽननुनासिको लकारौ स्तः / तल्लुनाति / भवॉल लुनाति / 'आसन्न' इत्येव सिद्ध द्विवचनमन्यत्राऽनुनासिकस्यापि स्थानेऽननुनासिकार्थम् / 117 उदः स्थास्तंभः सः॥१॥३॥४४॥ उदः परयोः स्थास्तम्भ इत्येतयोः सकारस्य लुक् स्यात् / अनेन 'उद् स्थाता, उद् स्तम्भिता' इत्यत्र सकारस्य लुकि। ___ 118 अघोषे प्रथमोऽशिटः // 13 // 50 // शिड्वर्जितस्य धुटः स्थानेऽघोषे परे प्रथमः स्यात् / इति दकारस्य तकारः। उत्थाता / उत्तम्भिता / उद इति किम् / उत्स्नोता। उत्स्कन्नः। स इति किम् / उत्तिष्ठति / उदस्थात् / प्रत्यासत्तेः स्थास्तम्भविशेषणस्थैवोदो ग्रहणादिह न भवति / ऊर्ध्वं स्थानमस्योत्स्थानः / कथमुत्स्कन्दतीति उत्स्कदको रोग इति ? पृषोदरादित्वाद् भविष्यति /