________________ 21 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 108 अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः // 1 // 2 // 41 // अवर्णस्येवर्णस्योवर्णस्य चान्ते-विरामे वर्तमानस्यानुनासिक आदेशो वा स्यात् , अनीदादेःन चेदयमीदेद्विवचनमित्यादिसूत्रसंबंधी स्यात् / पदान्ताधिकारेऽन्तग्रहणं विरामप्रतिपत्त्यर्थम् / स च विरामे भवन् पदस्यान्ते भवति, केवलमुपसर्गस्य समासान्तर्वर्तिनश्च न भवति, / सामँ, साम / दधि, दधि / मधु, मधु / अइउवर्णस्येति किम् / कर्त / हत / अन्त इति किम् / दधि करोति / अनीदादेरिति किम् / अग्नी / चादिसूत्रे चादेः स्वरस्य केवलस्याङ्वर्जितस्य च ग्रहणादिह भवत्येव / अँ इति विष्णोः संबोधनम् / प्लक्षच न्यग्रोधश्च / पाटलिपुत्रादाँ। . - इति श्रीसिद्धहैमबृहत्पक्रियायामसंधिप्रकरणं . समाप्तम् // // अथ व्यंजनसंधिप्रकरणम् // 109 तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे चटवौं // 13 // 60 // तवर्गस्य स्थाने शकारचवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गावादेशौ स्तः स्थान्यासन्नौ। समुदायद्वयापेक्षया यथासंख्यार्थ तृतीयाद्विवचनम् / योगग्रहणं स्थानिखाऽऽशंसानिरासार्थ पूर्वापरभावानियमार्थ च / तच् शेते / तच्चरति / पेष्टा / तट्टीकते / अत्र (तच् शेते, तच्चरति, इत्यादौ) तवर्गस्य चवर्गे कृते 'चजः कगम्' (2-7-86) इति न भवति, 'असिद्धं बहिरङमन्तरङ्गे' इति न्यायात् / तत्र च प्रत्ययाधिकारान्मज्जतीत्यादावपि न भवति / एवमुत्तरत्रापि (वृश्चतीत्यादौ 'सस्य शषौ' इत्यनेन कृतस्य ) शकारस्य (यजसृजेति) षखमपि (प्रत्ययाभावादेव ) न भवति / 110 सस्य शषौ // 1 / 3 / 61 // सकारस्य स्थाने श्चवर्गष्टवर्गाभ्यां योगे यथासंख्यं शकारपकारावादेशौ स्तः। वृश्चति / मज्जति / सर्पिष्षु / पाक्षि / * पदान्ताऽपदान्तयोरयं विधिः। 111 न शात् // 1 // 3 / 62 // शकारात् परस्य तवर्गस्य स्थाने यदुक्तं तन्न स्यात् / अश्नाति / 112 पदान्ताहवर्गादनाम्नगरीनवतेः॥१॥३॥६३॥ पदान्ते वर्तमानादृवर्गात्परस्य नाम्नगरीनवतिसंबंधिवर्जितस्य तवर्गस्य सकारस्य च यदुक्तं तन्न स्यात् / षट् तयम् / मधुलिट्स / टवर्गादिति किम् / चतुष्टयम् / पदान्तादिति किम् /