________________ 20 सिद्धहैमबृहत्प्रक्रिया. [ असन्धि गच्छ / कथं तितउः परिवपनम् / 'तनेउः' इति डउविधानबलाद् असंधिर्भविष्यति। उत्तरत्रान्तग्रहणादिह केवलो गृह्यतेतेनेहन चेति।स्वर इत्येव / जानु उ जानू / स्वर इति प्रत्यासत्तेस्तनिमित्तकसंधिप्रतिषेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव / जानु उ अस्य रुजति, जान् अस्य रुजति / केचित्तु चाद्यचादिस्थानस्याचादिरूपत्वात् स्वरनिमित्तकमपि संधिमिच्छन्ति / जानु उ अस्य रुजति, जान्वस्य रुजति / अनाङिति किम् / आ-ईषदुष्णमोष्णम् / / ___ 'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं डिन्तं विद्याद् वाक्यस्मरणयोरङित् // . 104 ओदन्तः // 12 // 37 // ओकारान्तश्चादिः स्वरे परेऽसंधिः स्यात् / अहो अत्र / चादिरित्येव / गवीश्वरः / 105 सौ नवेतौ // 1 // 2 // 38 // सिनिमित्तो य ओदन्तः स इतौ परेऽसंधिर्वा स्यात् / पटो इति / पटविति / साविति किम् / अहो इति / गवित्ययमाह / गौरिति वक्तव्येऽशक्त्या गोइत्युक्तमनुक्रियते।स्याद्वादाश्रयणाचानुकार्यानुकारणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति / इताविति किम् / पटोऽत्र / . 106 ॐ चोञ् // 1 // 2 // 39 // उशब्दश्वादिरितिशब्दे परेऽसंधिर्वा स्यात्, असंधिपक्षे च उन ॐ इत्येवंरूपो दीघोऽनुनासिको वा स्यात् / तथा च सति त्रैरूप्यं सिद्धं भवति / उ इति, ऊँ इति, विति / इतावित्येव / उ उत्तिष्ठ। जित्करणं स्वरूपपरिग्रहार्थम्, तेन विकृतस्य न भवति / अह उ-अहो, अहो इति / अथ ऊँ इत्येव चादिषु पठ्यतां, किमादेशेन / नैवम् / तस्याऽनितावपि प्रयोगः प्रसज्येत, तनिषेधार्थमादेशवचनम् / . 107 अप्रवर्गात् स्वरे वोऽसन् // 1 // 2 // 40 // अकाररहितेभ्यो वर्गेभ्यः पर उञ् स्वरे परे वकारो वा स्यात्, स चासन्-अभूतवत् / वास्ते / क्रुङ आस्ते / असत्त्वाद् द्वित्वम् / वर्गादिति किम् / स्वरु उपैति / अबिति किम् / घत्रु एति / स्वर इति किम् / किमु गच्छति। _* सप्तम्यर्थे पर्यवसन्नमीदन्तं संधि न भजते, इति केषांचिन्मते, सोमो गौरी' अधिश्रितः, मामकी तनू' इति, एवमादिषु संधिर्न स्यात् / सप्तम्यर्थ इति अर्थग्रहणाद् वृत्तावर्थान्तरोपसंक्रान्ते तु संधिर्भवत्येव / वाप्यामश्वो वाप्यश्वः। 3 अत्र सप्तम्या लोपरछान्दसः।