________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. किं निर्ग्रन्थस्य सागारिका 3 3 उतानागारिके / प्रत्यभिवादे-आयुष्मानेधि अग्निभूता 3 3 / पटा 3 उ / प्रश्ना_विचारे चेति किम् / आगच्छ भो अग्निभूते 3 / संधेयग्रहणं किम् / कच्चि३त् कुशल३म् भवत्योः 3 कन्ये 3 ? / संध्यक्षरस्येति किम् / भद्रिकाऽसि कुमारि ३।वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति, अगमः 3 पूर्वी 3 ग्रामौ 3 देवदत्त 3 / 99 तयोवौं स्वरे संहितायाम् // 7 / 4 / 103 // तयोः प्लुताकारात् परयोरिदुतोः स्थाने खरे परे संहितायां विषये यथासंख्यं यकारवकारादेशौ स्तः / अगमः 3 अग्निभूता 3 यत्रागच्छ / अगमः 3 पटा 3 वत्रागच्छ / स्वे दीर्घत्वस्याऽस्वे स्वरे इस्वत्वस्य बाधनाथै वचनम् / स्वर इति किम् / अग्ना ३इ / पटा 3 उ। संहितायामिति किम् / अग्ना३३ इन्द्रम् / पटा 3 उ उदकम् / केचिदैदौतोश्चतुर्मात्रं प्लुतमिच्छन्ति / ऐ 4 तिकायन / औ४पगव / 100 इ 3 वा // 1 // 2 // 33 // 3 3 इति प्लुतः स्वरे परे वाऽसंधिः स्यात् / इतावप्राप्तेऽन्यत्र प्राप्ते उभयत्र विकल्पोऽयम् / लुनीहि 3 इति / लुनीहीति / कथं वशा३इयम् वशेयम् / छांदसावेतौ / 101 ईदूदेद् द्विवचनम् / / 1 / 2 / 34 // ईत् ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परेऽसंधिः स्यात् / त्रपुणी अत्र / साधू एतौ / कुण्डे अत्र / ईदूदेदिति किम् / वृक्षावत्र। द्विवचनमिति किम् / कुमार्यत्र / एषां प्लुतानामितावपि संधिर्न स्यात् / अग्नी ३इति। स्वर इत्येव / तव ई कामौ तवे / प्रत्यासत्तेः स्वरनिमित्तककार्यप्रतिषेधादिह भवत्येव / वव ई तवे आसाते / केचितु 'मणीवोष्ट्रस्य लंबेते प्रियौ वत्सतरौ मम' इति प्रयोगदर्शनात् मणी इव मणीवेत्यादावसंधिप्रतिषेधं वर्णयन्ति, तदयुक्तम् / वाशब्देनोपमार्थेन सिद्धत्वात् / 'मणी इवोद्भिन्नमनोहरत्त्विपौ' इत्यादावसंधिदर्शनाच्च / अन्ये तु यथादर्शनं संधिमसंधि वेच्छन्ति / मणीव / दंपतीव / रोदसीव / मणी इव / 102 अदो मुमी // 1 // 2 // 35 // अदस्शब्दसंबंधिनौ मुमी इत्येतावसंधी स्तः स्वरे परे / अमुमुईचा / अमी आसते / अदसिति किम् / *अम्यत्र / 103 चादिः स्वरोऽनाङ् // 1 / 2 / 36 // आवर्जितश्चादिरव्ययसंज्ञकः स्वरः स्वरे परेऽसंधिः स्यात् / अअपेहि / आ एवं किल मन्यसे / आ एवं नु तत् / विस्मये, इ इन्द्रं पश्य / उ उत्तिष्ठ / चादिरिति किम् / अ ( विष्णो) आगच्छ आ * अम् गतौ, इत्यतो भावे घनि अमः, सोऽस्यातीति इन् /