________________ 18 सिद्धहैमबृहत्प्रक्रिया. [ असन्धि रन्त्यः स्वरः प्लुतो वा स्यात् / हे 3 देवदत्त आगच्छ / आगच्छ हे 3 देवदत्त / आगच्छ देवदत्त हे 3 / है 3 देवदत्त आगच्छ / आगच्छ है 3 देवदत्त। आगच्छ देवदत्त है 3 / हेहैष्वित्यवधारणस्य विषयार्थम् / एपामिति स्थानिनिर्देशार्थम् / बहुवचनं ह इहे हए है इति लाक्षणिकयोरपि परिग्रहार्थम् / एवकारोऽन्त्यस्य प्लुतस्य व्युदासार्थः / अत एव चैवकारात् यत्रतत्रस्थयोः प्लुतो विज्ञायते / 97 अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा // 74 / 101 // यदभिवाद्यमानो गुरुः कुशलानुयोगेनाशिषा वा युक्तं वाक्यं प्रयुक्ते स प्रत्यभिवादः। तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरोभोःशब्दस्य गोत्रस्य नाम्नो वामन्त्र्यस्य संबंधी प्लुतो वा स्यात् / अभिवादये देवदत्तोऽहं भोः। आयुष्मानेधि भोः 3 / आयुष्मानेधि भोः / गोत्रे अभिवादये गाग्र्योऽहं भोः। आयुष्मानेधि गार्ग्य 3 / आयुष्मानेधि गार्य / राजन्यविशोरपि गोत्रत्वमेव / अभिवादयेऽहमिन्द्रवर्मा भोः / आयुष्मानेधीन्द्रवर्म 3 न् / इन्द्रवर्मन् / आभिवादये इन्द्रपालितोऽहं भोः। आयुष्मानेधीन्द्रपालित 3 / इन्द्रपालित / नाम-अभिवादये देवदत्तोऽहं भोः। आयुष्मानेधि देवदत्त३। देवदत्त / स्त्रीशूद्रवर्जनं किम् / अभिवादये गार्म्यहं भोः, आयुष्मती भव गार्गि / अभिवादये तुपजकोऽहं भोः, आयुष्मानेधि तुषजक। प्रत्यभिवादे इति किम् / अभिवादये स्थाल्यहं भोः। आयुष्मानेधि स्थालि 3 / अभिवादयिताह-खरकुटीवन ममेकारान्ता संज्ञा, का तर्हि दण्डिवनकारांता संज्ञा / पुनर्गुरुराह-आयुष्मानेधि स्थालि३न् / स पुनराह-ईकारान्तैव मम संज्ञा, स प्रत्युच्यते-अम्यकस्त्वमसि जाल्म, न त्वं प्रत्यभिवादमर्हसि, भिद्यस्व वृषल स्थालि। भोगोत्रनाम्न इति किम् / देवदत्त कुशल्यसि, देवदत्तायुष्मानेधि / पुनर्वाग्रहणमुत्तरत्र वाधिकारनिवृत्त्यर्थम् / _ 98 प्रश्नार्चाविचारे च संधेयसंध्यक्षरस्यादिदुत्परः // 14 / 102 // संधेयः संधियोग्यः, यः कचित् स्वरे परे विकारमापद्यते / प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्थ संबंधिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतः स्यात् / स च प्रत्यासत्या एकारैकारयोरिकारपर ओकारौकारयोरुकारपरो भवति / प्रश्न-अगमः 3 पूर्वा 3 न् ग्रामा 3 नमिभूता३ इ ? / पटा 3 उ ? / प्रश्ने च प्रतिपदमिति प्लुतः / अर्चा पूजा तस्याम्-दूरादामंत्र्यस्येति प्लुतः। शोभनः खल्वसि अग्निभूता 3 इ / पटा 3 उ / विचारे-वस्तव्यं