________________ मकरणम् ] सिद्धहैमधृहत्मक्रिया. आख्यानग्रहणं किम् / देवदत्त कटमकार्षीर्हि / उत्तरेण सिद्धे नियमार्थ वचनम् / हे प्रश्नाख्यान एव, हे प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्य एव प्लुत इति च / 94 प्रश्ने च प्रतिपदम् // 74 / 98 // प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य संबंधिनः पदस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् / प्रश्ने-अगमः 3 पूर्वा३न् ग्रामा३न् देवदत्त ३?।अगमः पूर्वान् ग्रामान देवदत्त ? प्रश्नाख्याने-अगम ३म् पूर्वाश्न ग्रामा३न जिनदत्त 3 / अगमम् पूर्वान् ग्रामान जिनदत्त / प्रश्ने चेति किम् / देवदत्त ग्रामं गच्छ / प्रतिपदमिति किम् / वाक्यस्यैवान्त्यः स्वरः प्लुतो मा भूत् / 95 दूरादामंत्र्यस्य गुरुर्वैकोऽनन्त्योऽपि लनृत् // 14 / 99 // यत्र पाकृतात् प्रयत्नात् प्रयत्नविशेषे आश्रीयमाणे संदेहो भवति किमयं श्रोष्यति नवेति तददूरम् / वाक्यस्य यः स्वरेष्वन्त्यः स्वरो दुरादामन्त्र्यपदस्य संबंधी गुरुर्वानन्त्योऽपि ऋकारवर्जितः स्वर लकारश्चैको दूरादामन्त्र्यस्यैव संबंधी स प्लुतो वा स्यात् / आगच्छ भो इ३न्द्रभूतें, इन्द्रभू३ते, इन्द्रभूते 2 / महाविभाषयैव प्लुतविकल्पे सिद्धे वाग्रहणं न विकल्पार्थम् , किंत्वन्त्यप्लुतेन सह गुरोः असमावेशार्थम् / तेन क्ल३प्तशिख 3 इति न भवति / दूरादिति किम् / शृणु देवदत्त / आमंत्र्यस्येति किम् / आगच्छतु देवदत्तः। प्रधानाप्रधानयोः प्रधाने कार्यसंप्रत्ययादिह न स्यात्आगच्छ भोः कपिलक माणव / अत्र माणवेति कपिलक इत्यस्य विशेषणमिति अप्रधानता / गुरुरिति किम् / अनन्त्यस्य लघोर्मा भूत् / एक इति किम् / अनेकस्य गुरोर्योगपद्येन मा भूत् / अनन्त्योऽपीति किम् / अन्त्यस्यैव मा भूत् / लकारग्रहणमऋदिति प्रतिषेधनिवृत्यर्थम् / अथऋतःप्रतिषेधे लकारस्य कः प्रसङ्गः ? / उच्यते। इदमेव ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतीति / तेनाचीक्लुपदित्यादौऋवर्णकार्य लवर्णस्यापि सिद्धं भवति / अनृतः किम् / कृष्णमित्र, कृष्णमित्र 3 / अनृदिति गुरुर्विशिष्यते, न स्वरेष्वन्त्यस्तेनेहापि भवति / आगच्छ भोः कर्तृ 3 / आगच्छ भोः कर्तृ / वाक्यस्य स्वरेष्वन्त्यः प्लुत इत्यनुवृत्तेरिह न भवति / देवदत्त अहो आगच्छ / अभिपूजितेऽपि दूरादामन्त्र्यस्यैव प्लुत इष्यत इति अभिपूजिते चेति नारंभणीयम् / शोभनः खल्वसि माणवक 3 / शोभनः खल्वसि माणवक / . _ 96 हेहैष्वेषामेव // 74 / 100 // दूरादामन्त्र्यस्य संबंधिनौ यौ हेहै शब्दौ कौ च तौ यौ तदामंत्रणे वर्तेते तयोः प्रयुज्यमानयोः तयोरेव वाक्ये यत्रतत्रस्थयो