________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. मासिकः पटः / मासेन कार्य मासिकं चान्द्रायणम् / मासेन सुकरः प्रासादः / कालादिति किम् / चैत्रेण परिजय्यम् / 1752 निर्वृत्ते // 64 / 105 // तेनेति कालादिति च वर्तते / कालवाचिनस्तृतीयान्तानित्तेऽर्थे इकण प्रत्ययः स्यात् / अहना निवृत्तमाह्निकम् / मासिकम् / आर्धमासिकम् / सांवत्सरिकम् / योगविभाग उत्तरत्रास्यानुवृत्त्यर्थः। . 1753 तं भाविभूते // 6 / 4 / 106 // कालादिति वर्तते / द्वितीयान्तात् कालवाचिनो भाविनि भूते चार्थ इकण प्रत्ययः स्यात् / स्वसत्तया व्याप्स्यमानकालो भावी। व्याप्तकालो भूतः / मासं भावी भूतो वा मासिक उत्सवो व्याधिर्वा / 1754 तस्मै भृताधीष्टे च // 6 / 4 / 107 // कालादिति वर्तते / तस्मै इति तादर्थ्यचतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण प्रत्ययः स्यात् / भृतो वेतनेन क्रीतः / अधीष्टः सत्कृत्य व्यापारितः / मासाय भृतो मासिकः कर्मकरः / मासं कर्मणे भृत इत्यर्थः / मासायाधीष्टो मासिक उपाध्यायः। मासमध्यापनायाधीष्ट इत्यर्थः / एवं वार्षिकः / सांवत्सरिकः। चकारस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्टे चेति सूत्रत्रयस्याप्युत्तरत्रानुवृत्त्यर्थः / 1755 षण्मासादवयास ण्येकौ // 6 / 4 / 108 // षण्मासंशब्दात् कालवाचिनस्तेन निवृत्ते तं भाविभूते तस्मै भृताधीष्टे चेत्यस्मिन् विषयेऽवयसि गम्यमाने ण्य इक इत्येतो प्रत्ययौ स्याताम् / षड्भिर्मासैनिर्वृत्तः षण्मासान् भावी भूतो वा षण्मासेभ्यो भृतोऽधीष्टो वा पाण्मास्यः। षण्मासिकः। अवयसीति किम् / षण्मासान् भूतः षण्मास्यः / 'षण्मासाद्ययणिकण' इति यः / 1756 समाया ईनः // 6 / 4 / 109 // समाशब्दात्तेन निर्वृत्त इत्यादिपञ्चकविषये ईनः प्रत्ययः स्यात् / समया निवृत्तः समां भूतो भावी चा समायै भृतोऽधीष्टो वा समीनः। 1757 राज्यहःसंवत्सराच द्विगोर्वा // 6 // 4110 // रात्रि अहन् संवस्सर इत्येतदन्तात् समाशब्दान्ताच्च द्विगोस्तेन निवत्त इत्यादिपञ्चकविषये ईनः