SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 352 सिद्धहैमबृहत्पक्रिया. [ तद्धित तथा वर्षासु देयं कार्य वा वार्षिकं मासिकमित्यादि भवति। प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगोः परस्य लुप् न भवति / द्वयोर्मासयोर्देयं कार्य वा द्वैमासिकं त्रैमासिकम् / 1746 व्युष्टादिष्वण // 6 / 4 / 99 // व्युष्टादिभ्यो निर्देशादेव सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण् प्रत्ययः स्यात् / व्युष्टे देयं कार्य वा वैयुष्टम्। नैत्यम् / बहुवचनादाकृतिगणोऽयम् / व्युष्टसाहचर्यान्नित्यशब्दः कालवाची गृह्यते ततः सप्तम्यपवादेन कालावनोाप्ताविति द्वितीयाविधानात् नित्यं देयं कार्य वेति द्वितीयान्तादेव प्रत्ययः / अन्ये तु सप्तम्यन्तादपीच्छन्ति / नित्ये विषुवति षड्मिश्वराचरैर्मुहूर्तेरनाक्रम्यमाणे देयं कार्य वा नैत्यम् / 1747 यथाकथाचाण्णः // 4 / 100 // यथाकथाचशब्दोऽव्ययसमुदायोऽ नादरेणेत्यर्थे वर्तते तस्माद्देये कार्ये चार्थे णः प्रत्ययः स्यात् / यथाकथाच दीयते क्रियते वा याथाकथाचम् / याथाकथाचा दक्षिणा। 1748 तेन हस्ताद्यः // 6 / 4 / 101 // तेनेति तृतीयान्ताद् हस्तशब्दाद् देये कार्ये चार्थे यः प्रत्ययः स्यात् / हस्तेन देयं कार्य वा हस्त्यम् / 1749 शोभमाने // 64 / 102 // तेनेति तृतीयान्ताच्छोभमानेऽर्थे इकण प्रत्ययः स्यात् / कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् / एवं वास्त्रयुगिकं शरीरम् / औपानहिको पादौ / असमर्थनसमासोऽप्यस्मिन् विषये भवति / कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् / अवास्त्रयुगिकम् / 1750 कर्मवेषाद्यः // 6 // 4 / 103 // कर्मन् वेष इत्येताभ्यां तृतीयान्ताभ्यां शोभभानेऽर्थे यः प्रत्ययः स्यात् / कर्मणा शोभते कर्मण्यं शौर्यम् / वेषेण शोभते वेष्यो नटः / पूर्ववन्नञ्समासो भवति / अकर्मण्यः। अवेष्यः। केचिद्वेषस्थाने वेशं पठन्ति / वेश्या नर्तकी। . 1751 कालात्परिजय्यलभ्यकार्यसुकरे // 6 / 4 / 104 // कालविशेषवाचिनस्तृतीयान्तात परिजय्ये लभ्ये कार्य सुकरे चार्थे इकण प्रत्ययः स्यात् / परितो जेतुं शक्यं परिजय्यम् / शक्ते कृत्यः / लभ्यकार्ययोः शक्तेऽहे वा / अकृच्छ्रेण क्रियते यत्तत्सुकरम् / मासेन परिजय्यो मासिको व्याधिः। मासेन लभ्यो
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy