________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 351 निर्देशादेव द्वितीयान्ताभ्यां यथासंख्यं यजमानेऽधीयाने चार्थे इकण प्रत्ययः स्यात् / तुरायणं नाम यज्ञस्तं यजते तौरायणिकः / पारायणमधीते पारायणिकः। 1740 संशयं प्राप्ते ज्ञेये // 6 / 4 / 93 // संशयमिति द्वितीयान्तात् प्राप्तेऽर्थे इकण प्रत्ययः स्यात् स चेत् प्राप्तोऽर्थो ज्ञेयो भवति / संशयं प्राप्तः सांशयिकः। सांशयिकोऽयमूर्धो न जाने स्थाणुरुत पुरुष इति / सांशयिकश्चैत्रो न जाने जीवति उत मृत इति। ज्ञेय इति किम् / संशयितरि मा भूत् / सोऽपि हि संशयं प्राप्तो भवति तस्य तत्र भावात् / 1741 तस्मै योगादेः शक्ते // 6 / 4 / 94 // योगादिभ्यस्तस्मै इति चतुधन्तेभ्यः शक्तेऽर्थे इकण प्रत्ययः स्यात् / योगाय शक्तः यौगिकः / सांतापिकः / 1742 योगकर्मभ्यां योको // 6 / 4 / 95 // आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं य उकञ् इत्येतौ प्रत्ययौ स्याताम् / योगाय शक्तः योग्यः / कर्मणे शक्तं कार्मुकम् / एवं योगशब्दस्य द्वैरूप्यम् / 1743 यज्ञानां दक्षिणायाम् // 6 / 4 / 96 // यज्ञवाचिभ्यो निर्देशादेव षष्ठयन्तेभ्यो दक्षिणायामर्थे इकण् प्रत्ययः स्यात् / यज्ञकर्मकृतां वेतनादानं दक्षिणा / अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी / वाजपेयिकी / राजमूयिकी। नावयज्ञिकी / पाश्चौदनिको / ऐकादशाहिकी। द्वादशाहिकी / द्वैवाजपेयिकी। बहुवचनं स्वरूपविधेय॒दासार्थम् / 1744 तेषु देये // 6 / 4 / 97 // यज्ञवाचिभ्यस्तेष्विति निर्देशादेव सप्तम्यन्तेभ्यो देयेऽर्थे इकण प्रत्ययः स्यात् / अग्निष्टोमे देयं आग्निष्टोमिकम् / वाजपेयिकं भक्तम् / 1745 काले कार्ये च भववत् // 6 / 4 / 98 // कालवाचिनो निर्दशादेव सप्तम्यन्ताद्देये कार्ये चार्थे भववत् प्रत्ययाः स्युः। यकाभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवेऽर्थे भवन्ति ताभ्यः प्रकृतिभ्यस्तेन विशेषेण कार्ये देये चार्थे ते प्रत्ययाः स्युः / वद्धि सर्वसादृश्यार्थः / यथा वर्षासु भवं वापिकं मासिकमित्यादि