________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. स्यादिति वेदितव्यम् न चेत्सा लुगन्ता भवति / चन्द्रायणं चरति चान्द्रायणिकः / द्वे चन्द्रायणे चरति द्वैचन्द्रायणिकः / पारायणमधीते पारायणिकः। द्वे पारायणे अधीते द्वैपारायणिकः / संख्यादेरिति किम् / परमपारायणमधीते / महापाराययणमधीते / चकारः केवलार्थः। आहेत इत्यत्राकारोऽभिविधौ / तेनाईदर्थेऽपि भवति / द्वे सहस्र द्विसहस्रं वार्हति द्विसाहस्रः। अलुच इति किम् / द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् / अत्र 'शूर्पाद्वाञ्' इत्यञ् / 'अनाम्न्यद्विः प्लुप्' इति लुप् / द्विशूर्पण क्रीतं द्विशौर्पिकम् / पुनरपि 'शूर्पाद्वाञ् ' इत्यञ् न भवति / __ 1728 गोदानादीनां ब्रह्मचर्ये // 6 / 4 / 81 // गोदानादिभ्यो निर्देशाद षष्ठयन्तेभ्यो ब्रह्मचर्येऽभिधेये इकण प्रत्ययः स्यात् / गोदानस्य ब्रह्मचर्य गौदानिकम्। आदित्यव्रतानामादित्यवतिकम् / महानाम्नीनां माहानाम्निकम् / गोदानादयः प्रयोगगम्याः। येभ्योऽस्मिन्नर्थे इकण दृश्यते ते गोदानादयः। 1729 चन्द्रायणं च चरति // 6 // 4 // 82 // चन्द्रायणशब्दानिर्देशादेव द्वितीयान्ताद गोदानादिभ्यश्चार्थाद द्वितीयान्तेभ्यश्चरत्यर्थे इकण प्रत्ययः स्यात् / चन्द्रायणं चरति चान्द्रायणिकः / गोदानं चरति गौदानिकः। आदित्यवतिकः / महानाम्न्यो नाम ऋचः। तत्साहचर्यात् तासां व्रतमपि महानाम्न्यः। महानाम्नीव्रतं चरति माहानामिकः। 1730 देवव्रतादीन डिन् // 6 / 4 / 83 // देवव्रतादिभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययः स्यात् / देवव्रतं चरति देवव्रती। तिलव्रती। महाव्रती। देवव्रतादयः प्रयोगगम्याः। डित्करणमुत्तरत्रान्त्यस्वरादिलोपार्थम् / 1731 डकश्चाष्टाचत्वारिंशतं वर्षाणाम् / / 6 / 4 / 84 // वर्षाणां संबंधि-. नोऽष्टाचत्वारिंशच्छब्दाद् व्रतवृत्तेनिर्देशादेव द्वितीयान्ताचरत्यर्थे डकश्चकाराड्डिन् च प्रत्ययः स्यात् / अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत् तच्चरति अष्टाचत्वारिंशकः / अष्टाचत्वारिंशी। __ 1732 चातुर्मास्यं तौ यलुक् च // 6 / 4 / 85 // चातुर्मास्यशब्दाद् व्रतवृत्तेद्वितीयान्ताच्चरत्यर्थे तो डकडिनौ प्रत्ययौ यलोपश्च भवति / चतुर्यु मासेषु भवानि 'यज्ञेव्यः' इति ज्यः चातुर्मास्यानि नाम यज्ञाः / तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः। चातुर्मासी /