SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ [तद्धित 348 सिद्धहैमबृहत्प्रक्रिया. .... 1723 अगारान्तादिकः // 6 / 4 / 75 // अगारान्तात् तत्र नियुक्तेऽर्थे इकः प्रत्ययः स्यात् / देवागारिकः। देवागारिका / भाण्डागारिकः। भाण्डागारिका। आयुधागारिकः / आयुधागारिका / कोष्ठागारिकः / कोष्ठागारिका / __1723 अदेशकालाध्यायिनि // 6 / 4 / 76 / / तत्रेति वर्तते / अध्ययनस्य यौ प्रतिषिद्धौ देशकालौ तावदेशकालौ / तद्वाचिनः सप्तम्यन्तादध्यायिन्यर्थे इकण प्रत्ययः स्यात् / अशुचावध्यायी आशुचिकः। श्मशानेऽध्यायी श्माशानिकः श्मशानाभ्यासिकः। अकाल-साध्यिकः। अदेशकालादिति किम् / स्वाध्यायभूमाबध्यायी। पूर्वाह्नेऽध्यायी। 1724 निकटादिषु वसति // 6477 // निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण प्रत्ययः स्यात् / निकटे वसति नैकटिकः / आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यमिति यस्य शास्त्रितो वासः स एवोच्यते / एतदर्थ एव च वत्रेत्यधिकारे सप्तमीनिर्देशः / वृक्षमूले वसति वार्तमूलिकः। माशानिकः। आभ्यवकाशिकः / आवसथिकः / निकटादयः प्रयोगगम्याः / . 1725 सतीर्थ्यः // 6478 // सतीर्थ्य इति समानतीर्थंशब्दात् तत्र वसत्यर्थे यः प्रत्ययो निपात्यते समानस्य च सभावः / समानतीर्थे वसति सतीर्थ्यः। तीर्थमिह गुरुरुच्यते / - 1726 प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति // 6479 // प्रस्तार संस्थान इत्येताभ्यां प्रस्तारान्तात् संस्थानान्तात् कठिनान्ताच व्यवहरत्यर्थे इकण प्रत्ययः स्यात् / व्यवहरतिरिह क्रियातत्वे क्रियाया अविपरीतस्वभावे / यथा लौकिको व्यवहार इत्यत्र / प्रस्तारे व्यवहरति प्रास्तारिकः। सांस्थानिकः / तदन्त-क्रांस्यप्रस्तारिकः / लौहप्रस्तारिकः / गौसंस्थानिकः आश्वसंस्थानिकः / कठिनान्त-वांशकठिनिकः / वार्धकठिनिकः। कठिनं तापसभाजनं पीठं वा / बहुवचनं कठिनान्तेति स्वरूपग्रहणव्युदासार्थम् रूढयर्थ च / प्रस्तारसंस्थानाभ्यां तदन्ताभ्यां केचिन्नेच्छन्ति / ... 1727 संख्यादेश्चाहंदलुचः // 6480 // आ अहंदर्थादित अ या प्रकृतिरुपादास्यते तस्याः केवलायास्तदन्तायाश्च संख्यापूर्वाया वक्ष्यमाणः प्रत्ययः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy