________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 1716 भक्ष्यं हितमस्मै // 6 / 4 / 69 // तदिति वर्तते / तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण प्रत्ययः स्यात् यत् तत् प्रथमान्तं तच्चेद् भक्ष्यं हितं भवति / अपूपा भक्ष्यं हितमस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। गौडधानिकः। भक्ष्यमिति किम् / देवदत्तो हितोऽस्मै / हितमिति किम् / अपूपा भक्ष्यमहितमस्मै / हितार्थो भक्षणक्रिया च तद्धितवृत्तावेवान्तर्भवति / 1717 नियुक्तं दीयते // 6 // 470 // तदिति अस्मै इति च वर्तते / तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण् प्रत्ययः स्यात् / यत्तत्प्रथमान्तं तच्चेनियुक्तमव्यभिचारेण नित्यं वा दीयते / अग्रभोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः / आग्रकलिकः / मांसिकः / आपूपिकः। शाष्कुलिकः। ग्रामिकः / आग्रहारिकः / अस्मै इत्येव / रजकस्य वस्त्रं नित्यं दीयते / अर्घ्यते इत्यर्थः। 1718 श्राणामांसौदनादिको वा / / 6 / 471 // श्राणा मांसौदन इत्येताभ्यां तदस्मै नियुक्तं दीयत इत्यस्मिन् विषये इकः प्रत्ययो वा स्यात् / श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी / श्राणिका / मांसौदनिकः। मांसौदनिका। पक्षे इकण / श्राणिकी। मांसौदनिकी / इकेकणोः स्त्रियां विशेषः। अन्ये त्विकं नेच्छन्ति। 1719 भक्तौदनादाणिकट् // 6 / 4 / 72 // भक्त ओदन इत्येताभ्यां यथासंख्यमणिकट प्रत्ययौ वा स्याताम् तदस्मै नियुक्तं दीयत इत्यस्मिन् विषये / भक्तमस्मै नियुक्तं दीयते भाक्तः। औदनिकः। औदनिकी / पक्षे इकण / भाक्तिकः। औदनिकः / ओदनशब्दादिकणं नेच्छन्त्यन्ये / 1720 नवयज्ञादयोऽस्मिन् वर्तन्ते // 6 / 4 / 73|| नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण प्रत्ययः स्यात् / नवा यज्ञा अस्मिन् वर्तन्ते नावयज्ञिकः। पाकयज्ञिकः। नवयज्ञादयः प्रयोगगम्याः। 1721 तत्र नियुक्त // 6 // 4 / 74 // तत्रेति सप्तम्यन्तानियुक्तेऽर्थे इकण् प्रत्ययः स्यात् / नियुक्तोऽधिकृतो व्यापारित इत्यर्थः / पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः / प्रत्ययार्थश्वायम् / स तु प्रकृत्यर्थोपाधिः / शुल्कशालायां नियुक्तः शौल्कशालिकः। आपणिकः / आत्ररिकः / दौवारिकः / आक्षपटलिकः।