________________ 346 सिद्धहैमबृहत्पक्रिया. [तद्धित 1712 वेष्ट्यादिभ्यः // 6 / 4 / 65 // इष्टि इत्येवमादिभ्यस्तदस्य प्रहरणमित्यस्मिन् विषये टीकण वा स्यात् / इष्टिः प्रहरणमस्य ऐटीकः / ऐष्टीकी / ऐष्टिकः / ईषा पहरणमस्य ऐषीकः / ऐपीकी / ऐषिकः। कम्पनं प्रहरणमस्य काम्पनीकः / काम्पनीकी / काम्पनिकः। अम्भःप्रहरणः आम्भसीकः / आम्भसीकी / आम्भसिकः। दण्डपहरणः दाण्डीकः, दाण्डीकी, दाण्डिकः। इष्टयादयः प्रयोगगम्याः / . 1713 नास्तिकास्तिकदैष्टिकम् // 64 / 66 // एते शब्दास्तदस्येत्यस्मिन् विषये इकणप्रत्ययान्ता निपात्यन्ते / निपातनं रूढ्यर्थम् / नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य नास्तिकः / अस्ति परलोकः पुण्यं पापमिति वा मतिरस्य आस्तिकः / नास्त्यस्तिशब्दौ तिवादिप्रतिरूपके अव्यये / निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातानास्तीति पदसमुदायाच्च प्रत्ययः। दिष्टं दैवं तत्पमाणमिति मतिरस्य दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिकः। 1714 वृत्तोऽपपाठोऽनुयोगे // 6 / 4 / 67 // तदस्येति वर्तते / तदिति प्रथमान्तादस्यति षष्ठयर्थे इकण् प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेदनुयोगविषये वृत्तोऽपपाठः। अनुयोगः परीक्षा / एकमन्यदपपाठोऽनुयोगे वृत्तमस्य ऐकान्यिकः / द्वैयन्यिकः / त्रैयन्यिकः / संख्यान्यशब्दयोस्तद्धिते विषयभूते समासः। ततस्तद्धितः / वृत्तोऽपपाठोऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः। अन्यत्वं चापपाठस्य सम्यक्पाठापेक्षम् / वृत्त इति किम् / वर्तमाने वय॑ति च न भवति / अपपाठ इति किम् / एकमन्यदस्य दुःखमनुयोगे वृत्तम् / जयोऽनुयोगे वृत्तः। अनुयोग इति किम् / स्वैराध्ययने मा भूत् / अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति / एकं रूपमध्ययने वृत्तमस्य ऐकरूपिकः / ऐकग्रन्थिकः। - 1715 वहुस्वरपूर्वादिकः // 6 / 4 / 68 // बहुस्वरपूर्वपदं यस्य तस्मान्नाम्नः प्रथमान्तादस्येति षष्ठयर्थे इकः प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेद् वृत्तोऽपपाठोऽनुयोगे भवति / एकादशान्यान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशान्यिकः / एकादशान्यिका स्त्री। द्वादशान्यिकः / द्वादशान्यिका स्त्री / त्रयोदशान्यिकः / त्रयोदशान्यिका / चतुर्दशान्यिकः / चतुर्दशान्यिका / अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति / द्वादश रूपाण्यध्ययने वृत्तान्यस्य द्वादशरूपिकः।