________________ मकरणम् ] सिद्धहैमबृहत्पक्रिया. रपेक्षा प्रवृत्तिरिति यावत् / अपूपा-अपूपभक्षणं शीलमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। ताम्बूलिकः / परुषवचनं शीलमस्य पारुषिकः / एवमाक्रोशिकः / मृदङ्गादिवदपूपादयः शब्दाः क्रियावृत्तयः प्रत्ययमुत्पादयन्ति / शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः / __ 1707 अस्थाच्छन्त्रादेरञ् // 6 / 4 / 60 // अङ्प्रत्ययान्तात्तिष्ठतेश्छत्रादिभ्यश्च तदस्य शीलमित्यस्मिन् विषये अब् प्रत्ययः स्यात् / आस्था / शीलमस्य आस्थः / सांस्थः / आवस्थः / सामास्थः / वैयवस्थः / नैष्ठः। वैष्ठः / 'उपसर्गादातः इत्यङ। आन्तस्थः / भिदादित्वादङ् / छत्रादि-छत्रं शीलमस्य छात्रः। छत्रशब्देन गुरुकार्येष्यवहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् / शिष्यो हि छत्रवद् गुरुच्छिद्रावरणादिप्रवृत्तश्छात्र इत्युच्यते / अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते / यथा शीलिता विद्येति / चुराशील: चौरः। तपःशील: तापसः। स्त्रियां छात्री / चौरी / तापसी। 1708 तूष्णीकः // 64 / 61 // तूष्णींशब्दात् तदस्य शीलमित्यस्मिन् विषये कः प्रत्ययो मकारलोपश्च निपात्यते / तूष्णींभावः शीलमस्य तूष्णीकः / 1709 प्रहरणम् // 6 // 4 // 32 // तदिति प्रथमान्तादस्येति षष्ठयर्थे इकण प्रत्ययः स्यात् यत्तत्पथमान्तं तच्चेत् प्रहरणं भवति। असिः प्रहरणमस्य आसिकः / प्रासिकः। चाक्रिकः। मौष्टिकः / धानुष्कः / चरतीत्यत्र व्यापारसाधनात् प्रत्ययो यथा अश्वेन चरतीति / शिल्पमित्यत्र तु विज्ञानातिशये यथा नृत्तं शीलमस्येति / अनेन तु व्यापाराभावेऽपि परिज्ञानमात्रे प्रत्ययः / 1710 परश्वधाद्वाण // 6 / 4 / 63 // परश्वधशब्दात् तदस्य प्रहरणमित्यर्थे अण् प्रत्ययो वा स्यात् / परश्वधः प्रहरणमस्य पारश्वधः / पक्षे इकण / पारश्वधिकः। 1711 शक्तियष्टेष्टीकण् // 6 / 4 / 64 // शक्ति यष्टि इत्येताभ्यां तदस्य प्रहरणमित्यस्मिन् विषये टीकण प्रत्ययः स्यात् / शक्तिः प्रहरणमस्य शाक्तीकः। शाक्तीकी। याष्टीकः / याष्टीकी / कथं शाक्तीकः शक्त्या जीवतीति / वेतनादीकणा भविष्यति। 44