________________ सिद्धहैमबृहत्पक्रिया. [तद्धिव न्तान्नानोऽवक्रयेऽर्थे इकण् प्रत्ययः स्यात् / आपणस्यावक्रय आपणिकः / शौल्कशालिकः / आतरिकः / गौल्मिकः / लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धाद् भिद्यते / 1701 तदस्य पण्यम् // 6 / 4 / 54 // तदिति प्रथमान्तादस्येति षष्ठयर्थे इकण प्रत्ययः स्यात् तच्चेत् प्रथमान्तं पण्यं विक्रेयं भवति / अपूपाः पण्यमस्य आपूपिकः / पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः / एवं शाष्कुलिकः / मौदकिकः / लावणिकः। ____ 1702 किशरादेरिकट् // 6456 // किशर इत्येवमादिभ्यस्तदस्य पण्यमित्यस्मिन् विषये इकट् प्रत्ययः स्यात्। किशरादयो गन्धद्रव्यविशेषवचनाः। किशरं किशरो वा पण्यमस्य किशरिकः / किशरिकी स्त्री। तगरिकः। तगरिकी स्त्री। टकारो ङयर्थः। 1703 शलालुनो वा // 6456 // शलालुशब्दाद् गन्धविशेषवाचिनस्तदस्य पण्यमित्यस्मिन् विषये इकट् प्रत्ययो वा स्यात् / शलालु पण्यमस्य शलालुकः / शलालुकी। पक्षे इकण / शालालुकी। 1704 शिल्पम् // 6 / 4 / 57 // तदस्येति वर्तते / तदिति प्रथमान्तादस्येत्यर्थे इकण प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेत् शिल्पं भवति / शिल्पं कौशलं विज्ञानप्रकर्षः। अनेन तन्निवर्त्यः क्रियाविशेषो लक्ष्यते / नृत्तं शिल्पमस्य नार्तिकः / गीतं गैतिकः / वादनं वादनिकः / मृदङ्गो मृदङ्गवादनं शिल्पमस्य मार्दैङ्गिकः / पाणविकः। मौरजिकः। वैणविकः। मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति न द्रव्यवृत्तयः / उत्पादनार्थदृत्तिभ्यस्त्वनभिधानान्न भवति / शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः। 1705 मडुकझझरादाण // 6 / 4 / 58 // मड्डक झर्झर इत्येताभ्यां तदस्य शिल्पमित्यर्थे अण् प्रत्ययो वा स्यात् / मड्डकवादनं शिल्पमस्य माड्डकः / झाझरः पक्षे इकण् / माडकिकः / झाझरिकः। . 1706 शीलम् // 6 / 4 / 59 // तदिति प्रथमान्तादस्येति षष्ठयर्थे इकण प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेत् शीलम् / शीलं प्राणिनां स्वभावः / फलनि