________________ प्रकरणम् ] . सिद्धहैमबृहत्प्रक्रिया. न्तेभ्यः समवेते तादात्म्यात् तदेकदेशीभूतेऽर्थे इकण् प्रत्ययः स्यात् / समूह समवैति सामूहिकः / सामाजिकः / सांसदिकः / सामवायिकः / गौष्ठिकः / तदेकदेशीभावमनुभवन्नेवमुच्यते / समवेत्यापगते तु समवेतशब्दो न वर्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति / 1694 पर्षदो ण्यः // 6 / 4 / 47 // पर्षच्छद्वाद् द्वितीयान्तात् समवेतेऽर्थे पारिषद्यः। 1695 सेनाया वा // 6 // 4 // 48 // सेनाशद्वाद् द्वितीयान्तात् समवेतेऽर्थे ण्यः प्रत्ययो वा स्यात् / सेनां समवैति सैन्यः / पक्षे समूहार्थात् समवेते इतीकण् / सैनिकः। सेनैव सैन्यमिति तु भेषजादित्वात् स्वाथै ट्यण / 1696 धर्माधर्माचरति // 6 / 4 / 49 // धर्म अधर्म इत्येताभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण प्रत्ययः स्यात् / चरतिस्तात्पर्येणानुष्ठाने / धर्म चरति धार्मिकः / आधर्मिकः / 1697 षष्ठया धर्ये // 6 // 4 // 50 // षष्ठयन्ताद धर्येऽर्थे इकण प्रत्ययः स्यात् / धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् / शुल्कशालाया धर्म्य शौल्कशालिकम् / आपणिकम् / गौल्मिकम् / आतरिकम् / 1698 ऋन्नरादेरण // 64 / 51 // ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठयन्तेभ्यो धर्येऽर्थेऽण् प्रत्ययः स्यात् / नुर्धम्य नारम् / स्त्रियां नारी / मातुर्मात्रम् / पितुः पैत्रम् / शास्तु शास्त्रम् / विकर्तुः वैकत्रम् / होतुत्रिम् / पोतुः पौत्रम् / नरशब्दादिकण मा भूदिति तद्ग्रहणम् / महिष्या माहिषम् / / 1699 विभाजयितृविशसितुर्णीड्लुक् च // 6 / 4 / 72 // आभ्यां षष्ठयन्तां धर्येऽर्थेऽण् प्रत्ययः स्यात्, तत्संनियोगे च विभाजयितुर्णिलुक् / विभाजयितुर्धम्यं वैभाजित्रम् / विशसितुर्वैशस्त्रम् / 1700 अवक्रये // 6 / 4 / 53 // अवक्रियते येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणादि सोऽवक्रयः / भौगनिर्देशो भाटकमिति यावत् / षष्ठ्य