________________ 342 सिद्धहैमबृहत्पक्रिया. [तद्धित तिकः / सौखरात्रिकः / सौखशयनिकः / सौखशाव्यिकः / मुस्नातादयः प्रयोगगम्याः / ____ 1690 प्रभूतादिभ्यो ध्रुवति // 6 // 4 // 43 // प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् प्रत्ययः स्यात् / प्रभूतं ब्रूते प्राभूतिकः / पर्याप्तं ब्रूते पार्याप्तिकः वैपुलिकः / वैचित्रिकः / नैपुणिकः। क्रियाविशेषणादयमिष्यते। तेनेह न भवति / प्रभूतमर्थ ब्रूते / पर्याप्तमर्थ ब्रूते / कचिदक्रियाविशेषणादपि / स्वर्गमनं ब्रूते सौवर्गमनिकः / प्रभूतादयः प्रयोगगम्याः / 1691 माशब्द इत्यादिभ्यः // 6 / 4 / 44 // माशब्द इत्यादिभ्यो ब्रुवत्यर्थे इकण् प्रत्ययः स्यात् / इतिशब्दो वाक्यपरामर्शार्थः / मा शब्द इति ब्रूते माशब्दिकः। मा शब्दः क्रिवतामिति ब्रूत इत्यर्थः। कार्यः शब्द इति ते कार्यशब्दिकः। नित्यः शब्द इति ब्रूते नैत्यशब्दिकः / माशद्ध इत्यादयः प्रयोगगम्याः। वाक्यात् प्रत्ययविधानार्थ वचनम् / .. . 1692 शाब्दिकदारिकलालाटिककौकुटिकम् // 6 / 4 / 45 // शाब्दिकादयः शब्दा यथास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते / शब्दं करोति शाब्दिकः / यः कश्चित् शब्दं करोति न स सर्वः शाब्दिकः किं तर्हि यः शब्द जानाति वैयाकरणः स एवाविनष्टं शब्दमुच्चारयन् शाद्विक उच्यते / एवं दाददिकः / दर्दरो घटो वादित्रं च तत्र वादित्रं कुर्वनेवमुच्यते / ललाटं पश्यति लालाटिकः / ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येष्वनुपस्थानम् / यः सेवको दृष्ट स्वामिनो ललाटमिति दृरतो याति न स्वामिकार्येषूपतिष्ठते स एवमुच्यते / ललाटमेव वा कोपप्रसादलक्षणाय यः पश्यति स लालाटिकः। कुक्कुटीपश्यति कौकुटिकः / कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते / तेन च देशस्याल्पता। यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपे देशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति स एवमुच्यते / यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौक्कुटिकः। दांभिकचेष्टा वा मिथ्याशौचादिः कुक्कुटी तामाचरन् कौक्कुटिकः। हृदयावयवो वा कुक्कुटी तां पश्यति कौकुटिको भिक्षुः। निभृत इत्यर्थः / तदेतत्सर्व निपातनाल्लभ्यते / ... 1693 समूहार्थात् समवेते // 6 / 4 / 46 // समूहवाचिभ्यो द्वितीया