________________ प्रकरणम् सिद्धहैमबृहत्पक्रिया. द्वितीयान्ताद् गृह्णत्यर्थे इकण प्रत्ययः स्यात् / अर्थ गृह्णाति आर्थिकः / पदं पादिकः / पदोत्तरपद-पूर्वपदं पौर्वपदिकः। औत्तरपदिकः / आदिपदिकः / आन्तपदिकः। ललाम-लालामिकः। प्रतिकण्ठं प्रातिकण्ठिकः। अव्ययीभावसमासाश्रयणादिह न भवति / प्रतिगतः कण्ठं प्रतिकण्ठः तं गृह्णाति / उत्तरपदग्रहणाद् बहुप्रत्ययपूर्वान्न भवति / बहुपदं गृह्णाति / / 1685 परदारादिभ्यो गच्छति // 6 // 4 // 38 // परदारादिभ्यो द्वितीया. न्तेभ्यो गच्छत्यर्थे इकण प्रत्ययः स्यात् / परदारान् गच्छति पारदारिका / गौरुदारिकः / गौरुतल्पिकः। सभर्तृकां गच्छति साभर्तृकिकः / भ्रातृजायिकः / परदारादयः प्रयोगगम्याः। 1686 प्रतिपथादिकश्च // 6 / 4 / 39 // प्रतिपथशब्दाद् द्वितीयान्ताद गच्छत्यर्थे इकः प्रत्ययः स्यात् चकाराद्यथाप्राप्त इकण् / पन्थानं 2 प्रति पथोऽभिमुखमिति वा प्रतिपथम् / तद् गच्छति प्रतिपथिकः प्रातिपथिकी वा। 1687 माथोत्तरपदपदव्याक्रन्दाद्धावति // 6 / 4 / 40 // तमिति वर्तते / माथोत्तरपदं यस्य तस्मानाम्नः पदवीशब्दादाक्रन्दशब्दाच द्वितीयान्ताद्धावत्यर्थे इकण प्रत्ययः स्यात् / दण्डमाथं धावति दाण्डमाथिकः। शौक्लमाथिकः / माथशब्द: पथिपर्यायः / दण्ड इव माथो दण्डमाथ; ऋजुमार्ग उच्यते / पदवीं धावति पादविकः / आक्रन्दति यत्र स देश आक्रन्दः / आक्रन्द्यते इति वा आक्रन्दः आर्तायनं शरणमुच्यते। आक्रन्दं धावति आक्रन्दिकः / उत्तरपदग्रहणाद् बहुप्रत्ययपूर्वान्न भवति। बहुमाथं धावति / 1688 पश्चात्यनुपदात् // 6 / 4 / 41 // पश्चातीति प्रकृतिविशेषणम् / पश्चादर्थः पश्चात् / पश्चादर्थे वर्तमानादनुपदशब्दाद् धावत्यर्थे इकण प्रत्ययः स्यात् / पदस्य पश्चादनुपदम् / अनुपदं धावति आनुपदिकः। प्रत्यासत्त्या धावतीत्यर्थः / पश्चातीति किम् / अनुपदं धावति / अत्र 'दैर्येऽनुः' समीपे 'प्रात्यवे' त्यादिना वा समासः। 1689 सुस्नातादिभ्यः पृच्छति // 6 / 4 / 42 // तमिति वर्तते / सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण प्रत्ययः स्यात् / सुस्नातं पृच्छति सौस्ना