________________ 340 सिद्धहैमबृहत्पक्रिया. सौकरिकः / नैयङ्कुकः / अथाजिह्मान् हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति / नैतन्मत्स्येत्यस्य स्वरूपं न विशेषो न पर्यायः अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः अनिमिषा देवा इति / 1679 परिपन्थात्तिष्ठति च // 6 // 4 // 32 // परिपन्थशब्दाद् द्वितीयान्तात्तिष्ठति प्रति चार्थ इकण प्रत्ययः स्यात् / परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकऔरः / अत एव निर्देशात् परिपथशब्दस्येकणोऽन्यत्रापि वा परिपन्थादेशः / तेन परिपन्थं गच्छति पश्यति इत्याद्यपि भवति / 1680 परिपथात् // 6 // 4 // 33 // तिष्ठतीति वर्तते / परिपथशब्दाद् द्वितीयान्तात् तिष्ठत्यर्थे इकण प्रत्ययः स्यात् / परिवर्जने सर्वतो भावे वा / पथः परि सर्वतः पन्थान वा परिपथम् / परिपथं तिष्ठति पारिपथिकः / पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः। शद्ववर्जिताद् गृह्णत्यर्थे इकण् प्रत्ययः स्यात् योऽसौ गृह्णाति स चेदन्यायेन ग्रहणाद् गो निधो भवति / द्विगुणं गृह्णाति द्वैगुणिकः / त्रैगुणिकः / वृधुषीं वृद्धिं गृणाति वाधुपिकः / अल्पं दत्त्वा प्रभूतं गृह्णन्नन्यायकारी निन्द्यते / अवृद्धेरिति किम् / वृद्धिं गृह्णातीति वाक्यमेव / गद्दे इति किम् / दत्तं गृह्णाति / 1682 कुसीदादिकट् // 6 // 4 // 35 // तमिति द्वितीयान्तात् कुसीदशब्दाद् गय॑ गृणत्यर्थे इकट् प्रत्ययः स्यात् / कुसीदं वृद्धिस्तदर्थ द्रव्यमपि कुसीदम् / तद् गृह्णाति कुसीदिकः / कुसीदिकी / टकारो ङयर्थः / __1683 दशैकादशादिकश्च // 6 // 4 // 36 // द्वितीयान्ताद् दशैकादशशब्दाद् गये गृह्णत्यर्थे इकवादिकट् च प्रत्ययः स्यात् / दशभिरेकादश दशैकादशाः / तान् गृह्णाति दशैकादशिकः दशैकादशिका / दशैकादशिकी। दशैकादशादित्यत एव निपातनादकारान्तत्वम् / तच्च वाक्ये प्रयोगार्थम् / दशैकादशान् गृह्णाति / अन्ये दशैकादश गृणातीति विगृह्णन्ति / तदपि अबाधकान्यपि निपातनानि भवन्तीति न्यायादुपपद्यते। 1684 अर्थपदपदोत्तरपदललामप्रतिकण्ठात् // 6 // 4 // 37 // गये इति निवृत्तम् / अर्थात् पदात् पदशब्द उत्तरपदं यस्य तस्मात् ललामात् प्रतिकण्ठाच