SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् / सिद्धहैमबृहत्प्रक्रिया. 339 कर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोरक्षेपणोऽग्रेवको दण्डो वा परिव्राजकोपकरणविशेषो वा चौराणां नौगृहायारोहणार्थ दामाग्रप्रतिबद्ध आयसोऽङ्कुशो वोच्यते / कुटिलिकया हरति अङ्गारान् कौदिलिकः कर्मारः। कुटिलिकया हरति व्याघ कौटिलिको मृगः / कुटिलिकया हरति पलालं कौटिलिकः कर्षकः। कुटिलिकया हरति पुष्पाणि कौटिलिकः परिव्राजकः। कुटिलिकया हरति नावं कौटिलिकचौरः। .. 1674 ओजःसहोऽभसो वर्तते // 6 / 4 / 27 // ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयान्तेभ्यो वर्तत इत्यर्थे इकण प्रत्ययः स्यात् / वृत्तिरात्मनिर्यापना चेष्टा वा / ओजसा बलेन वर्तते औजसिकः। सहसा प्रसहनेन पराभिभवेन वा साहसिकः। अम्भसा जलेन आम्भसिकः। 1670 तं प्रत्यनोर्लोमेपकूलात् // 6 / 4 / 28 // तेनेनि निवृत्तम् / तमिति द्वितीयान्तात् प्रति अनु इत्येताभ्यां परो यो लोमशद्ध ईपशद्धः कूलशद्धश्च तदन्तात् वर्तत इत्यर्थे इकण प्रत्ययः स्यात् / प्रतिलोमं वर्तते प्रातिलोमिकः। आनुलोमिकः। प्रातीपिकः। आन्वीपिकः। प्रातिकूलिकः। आनुकूलिकः। अकर्मकस्यापि वृत्तेोगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया / तमिति पुंलिङ्गनिर्देशोऽसंदेहार्थः। .. 1676 परेर्मुखपार्थात् // 6 / 4 / 29 // परिशब्दाद्यो मुखशब्दः पार्श्वशब्दश्च तदन्ताद् द्वितीयान्ताद् वर्तत इत्यर्थे इकण प्रत्ययः स्यात् / परिमुखं वर्तते पारिमुखिकः / परिपाच वर्तते पारिपाश्चिकः। परिवर्जने सर्वतोभावे वा / स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतो यतः स्वामिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः / एवं पारिपाश्चिकः / __1677 रक्षन्छतो // 6 // 4 // 30 // तमिति द्वितीयान्ताद रक्षति उच्छति चार्थे इकण् प्रत्ययः स्यात् / समाज रक्षति सामाजिकः / बदराण्युञ्छति उचिनोति बादरिकः। . 1678 पक्षिमत्स्यमृगार्थाद् नति // 6 // 4 // 31 // तमिति द्वितीयान्तेभ्यः पक्ष्यर्थेभ्यो मत्स्यार्थेभ्यो मृगार्थेभ्यश्च प्रत्यर्थे इकण् प्रत्ययः स्यात् / पक्षिणो हन्ति पाक्षिकः / मासिकः / मार्गिकः / अर्थग्रहणात् तत्पर्यायेभ्यो विशेषेभ्यश्च भवति। शाकुलिकः / मायूरिकः / तैत्तिरिकः / मैनिकः / शाफरिकः / शाकुलिकः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy