SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [तद्धित 1666 वातादीनञ् // 6 / 4 / 19 // बातशब्दात् तेन जीवत्यर्थे ईनञ् प्रत्ययः स्यात् / नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः। तत्साहचर्यात् तत्कापि बातम् / तेन जीवति वातीनः / अकारो वृद्धयर्थः। तेन 'तद्धितः स्वरद्धि' -इत्यादिना पुंवद्भावो न भवति / वातीनाभार्थः। 1667 निवृत्तेऽक्षयूतादेः // 6 / 4 / 20 // अक्षयूत इत्येवमादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकण प्रत्ययः स्यात् / अक्षयू तेन निवृत्तमाक्षयूतिकं वैरम् / जाङ्घामहतिकं वैरम्। 1668 भावादिमः // 6 / 4 / 21 // भाववाचिनस्तेन निवृत्तेऽर्थे इमः प्रत्ययः स्यात् / पाकेन निवृत्तं पाकिमम् / सेकिमम् / त्यागिमम् / रोगिमम् / कुट्टिमम् / संमूर्छिमम् / 1669 याचितापमित्यात् कण् // 6 / 4 / 22 / / याचितापमित्य इत्येताभ्यां तेन निर्वृत्ते कण प्रत्ययः स्यात् / याचितेन याच्या निवृत्तं याचितकम् / अपमित्येति यवन्तम् / अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम् / 1670 हरत्युत्सङ्गादेः // 6 / 4 / 23 // उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकण प्रत्ययः स्यात् / उत्सङ्गेन हरत्यौत्सङ्गिकः / उत्रुपेन औत्रुपिकः / उडुपेन औडुपिकः। 1671 भस्त्रादेरिकट् // 6 / 4 / 24 / / भस्त्रादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् प्रत्ययः स्यात् / भस्त्रया हरति भस्त्रिकः / भस्त्रिको / भरटिकः / भरटिकी। 1672 विवधवीवधादा // 3 / 4 / 26 // विवध वीवध इत्येताभ्यां तेन हरतीत्यर्थे इकट् प्रत्ययो वा स्यात् / विवधेन हरति विवधिकः / विवधिकी। बीवधिकः। वीवधिकी। पक्षे इकण / वैवधिकः। वैवधिकी / विवधवीवधशब्दो समानार्थों पथि पर्याहारे च वर्तते / 1673 कुटिलिकाया अण् / / 6 / 4 / 26 // कुटिलिकाशब्दात् तृतीयान्ताद् हरत्यर्थेऽण् प्रत्ययः स्यात् / कुटिलिकाशब्देनाग्रेवक्रा लोहादिमयी अङ्गारा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy