SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 335 1647 गिरेरीयोऽस्त्राजीवे // 6 / 3 / 219 // गिरिय आभिजनो निवासस्तदभिधायिनः प्रथमान्तादस्येति षष्ठयर्थे ईयः प्रत्ययः स्यात् अस्त्राजीवे-अस्त्रमाजीवो जीविका यस्य तस्मिन्नायुधजीविन्यभिधेय इत्यर्थः। हृद्गोलः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य हृद्गोलीयः / एवं भोजकटीयः। रोहितगिरीयः। अन्धश्मीयः। गिरेरिति किम् / सांकाश्यकोऽस्त्राजीवः प्रस्थपुरेत्यादिनाकञ् / अस्त्राजीव इति किम् / ऋक्षोदः पर्वत आभिजनो निवासोऽस्य आझेदो ब्राह्मणः। पृथुः पर्वत आभिजनो निवासोऽस्य पार्थवः / इति श्रीसिद्धहैमबृहत्मक्रियायां तद्धित प्रकरणे शैषिकाः समाप्ताः / // अथेकणधिकारः // 1648 इकण् // 6 / 4 / 1 // अणः पूर्णोऽवधिः। अधिकारोऽयमापादपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रापवादविषयं परिहृत्येकणित्यधिकृतं वेदितव्यम् / ___ 1649 तेन जितजयद्दीव्यत्खनत्सु // 6 / 4 / 2 // तेनेति तृतीयान्ताजिते जयति दीव्यति खनति चार्थे इकण् प्रत्ययः स्यात् / अक्षैर्जितमाक्षिकम् / अर्जयति दीव्यति वा आक्षिकः। शालाकिकः। अध्या खनति आभ्रिकः। अभ्री काष्ठमयी तीक्ष्णाग्रा / इह तेनेति करणे तृतीया वेदितव्या नान्यत्रानभिधानात् / तेन देवदत्तेन जितमित्यत्र न भवति / अध्या खननङ्गुल्या खनतीत्यत्र तु सत्यप्यङ्गुलेः करणत्वे मुख्यकरणभावोऽध्या एव नाङ्गुलेरित्यङ्गुलिशब्दान भवति / यथा सुघ्नादागच्छन्वृक्षमूलादागत इति / जयदादिषु त्रिषु कालो न विवक्षितः / जिते तु विवक्षितः / बहुवचनं पृथगर्थताभिव्यक्त्यर्थम् / 1650 संस्कृते // 6 // 4 // 3 // तेनेति तृतीयान्तात् संस्कृतेऽर्थे इकण प्रत्ययः स्यात् / सत उत्कर्षाधानं संस्कारः / दना संस्कृतं दाधिकम्। मारिचिकम् / शाङ्गवेरीकम् / उपाध्यायेन संस्कृतः औपाध्यायिकः शिष्यः। विद्यया संस्कृतो वैधिकः। योगविभाग उत्तरार्थः / 1651 कुलत्थकोपान्त्यादण् // 6 // 44 // कुलत्थशब्दात् ककारोपान्त्याच
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy