SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [तद्धित 334 सिद्धहैमबृहत्मक्रिया. प्रत्ययः स्यात् / पूर्वेण यथास्वमणादय एयणादयश्च विहिताः प्रत्ययान्तरमिदं सर्वप्रकृतिविषयं विधीयते। सुदाम्ना एकदिक् सुदामतः / मूर्यतः / हिमवत्तः / त्रिककुत्तः। पीलुमूलतः / पार्वतः ।पृष्ठतः / इकारो वत्तस्यामित्यत्र विशेषणार्थः। 1640 यश्चोरसः // 6 / 3 / 212 // उरस् इत्येतस्मात् तृतीयान्तात् तुल्यदिश्यर्थे यः प्रत्ययश्चकारात्तसिश्च स्याताम् / अणोऽपवादः। उरसा एकदिक् उरस्यः, उरस्तः। 1641 सेनिवासादस्य // 6 // 3 / 213 // सेरिति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् यत्तत् प्रथमान्तं स चेनिवासः / निवसन्त्यस्मिन्निति निवासो देश उच्यते / त्रुघ्नो निवासोऽस्य स्रौनः / माथुरः / नादेयः / राष्ट्रियः। __1642 आभिजनात् // 6 / 3 / 214 // सेनिवासादस्येति वर्तते / अभिजनाः पूर्वबान्धवाः तेषामयमाभिजनः / सेः प्रथमान्तादाभिजनानिवासादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः स्यात् / घुघ्नोऽस्याभिजनो निवासः सौनः। माथुरः / नादेयः / राष्ट्रियः। 1343 शण्डिकादेयः // 6 // 3 / 215 // शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थे ण्यः प्रत्ययः स्यात् / अणाद्यपवादः। शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः / कौचवार्यः। 1644 सिन्ध्वादेर // 6 / 3 / 216 // सिन्ध्वादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थेऽञ् प्रत्ययः स्यात् / सिन्धुराभिजनो निवासोऽस्य सैन्धवः / वार्णवः। 1645 सलातुरादीयण // 6 // 3217 // सलातुरशब्दात् प्रथमान्तादाभिजननिवासवाचिनोऽस्येत्यस्मिन्नर्थे ईयण प्रत्ययः स्यात् / सलातुर आभिजनो निावासोऽस्य सालातुरीयः पाणिनिः / .1646 तूदीवर्मत्या एयण // 6 / 3 / 218 // तूदीवर्मतीशद्धाभ्यां प्रथमान्ताभ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण मत्ययः स्यात् / तूदी आभिजनो निवासोऽस्य तौदेयः / वार्मतेयः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy