SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. क्षत्रियवाचिभ्यश्च द्वितीयान्तेभ्यो भजत्यर्थेऽकञ् प्रत्ययः स्यात् प्रायः / अणाद्यपवादः / ग्लुचुकायनिं भजति ग्लौचुकायनकः / औपगवकः / दाक्षकः / गार्गकः गाायणकः / क्षत्रिय-नाकुलकः। साहदेवकः / दौर्योधनकः / दौःशासनकः। बहुवचनं क्षत्रियविशेषपरिग्रहार्थम् / प्राय इति किम् / पणिनोऽपत्यं पाणिनः तं भजति पाणिनीयः। पौरवीयः। 1637 सरूपाद् द्रेः सर्व राष्ट्रवत् // 6 // 3 / 209 // 'राष्ट्रक्षत्रियात सरूपाद् राजापत्ये दिरञ्' इति प्रस्तुत्य सरूपाद्यो दिः प्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजतीत्यर्थे सर्व प्रत्ययः प्रकृतिश्च राष्ट्रवत् भवति / राष्ट्रवाचिनी या प्रकृतिजि इत्यादिस्ततश्च यः प्रत्ययो ‘वृजिमद्रादेशात् कः' इत्यादिना विहितस्तदुभयं वाय॑ इत्येवमादेः सरूपस्य द्रिप्रत्ययान्तस्य भजतीत्यस्मिन् विषये स्यादित्यर्थः। वाज्ये वाज्यौ जीन् वा भजति जिकः / मादं माद्रौ मद्रान् वा भजति मद्रकः / अत्र कप्रत्ययः / पाण्डयं पाण्डयौ पाण्डून् वा भजति पाण्डवकः। आङ्गकः। वाङ्गकः / पाञ्चालकः / वैदेहकः। औदुम्बरकः। तैलखलकः। अत्र वहुविषयेभ्य इत्यकञ् / कौरवकः। कौरवः / यौगन्धरकः / यौगन्धरः / 'कुरुयुगन्धराद्वा' इति वाकञ् / ऐक्ष्वाकः। अत्र 'कोपान्त्याचाण' इत्यण् / सरूपादिति किम् / पौरवीयम् / अत्र पुरुः राजा अनुखण्डो जनपद इति सारूप्यं नास्ति / अत एव पुरुमगध इत्यादौ द्विस्वरत्वेनैव सिद्धे पुरुग्रहणमसरूपाथ कृतम् / द्रेरिति किम् / पञ्चालान् ब्राह्मणान् भजति पाश्चालः। अत्र बहुविषयेभ्य इत्यकञ् न भवति / सर्वग्रहणं प्रकृत्यतिदेशार्थम् / ततश्च वाय॑माद्रपाण्डयकौरव्याः प्रयोजयन्ति / अन्यत्र हि नास्ति विशेषः। 1638 टस्तुल्यदिशि // 6 / 3 / 210 // ट इति सहार्थतृतीयान्तात् तुल्यदिश्यथै यथाविहितं प्रत्ययः स्यात् / तुल्या समाना साधारणा दिक् यस्य स तुल्यदिक् / एकदिगित्यर्थः / सुदाम्ना एकदिक् सौदामनी विद्युत् / सुदामा नाम पर्वतो यस्यां दिशि तस्यां विद्युत् / तेन सा सुदाम्ना सहैकदिगुच्यते / सूर्येण सहकदिक् सौरी बलाका। हिमवता एकदिक् हैमवती गङ्गा / त्रिककुदा एकदिक् त्रैककुदी लंका। 1639 तसिः // 6 // 3 / 211 // ट इति तृतीयान्तात् तुल्यदिश्यर्थे तसिरित्ययं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy