________________ सिद्धहैमबृहत्पक्रिया. [तद्धित मुघ्नमभिनिष्क्रामति सौनं कन्यकुब्जद्वारम् / माथुरम् / नादेयम् / राष्ट्रिय द्वारम् / करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातंत्र्यविवक्षा / यथा साध्वसिश्छिनत्तीति / रचनाबहिर्भावे वा निष्क्रमिः / यथा गृहकोणो निष्क्रान्तः द्वार इति किम् / सुघ्नमभिनिष्क्रामति चैत्रः / 1632 गच्छति पथि दूते // 6 // 3203 // द्वितीयान्ताद् गच्छत्यर्थे यथाविहितं प्रत्ययः स्यात् योऽसौ गच्छति स चेत् पन्था दूतो वा भवति / स्रुघ्नं गच्छति सौनः पन्था दूतो वा / माथुरः / नादेयः / राष्ट्रियः / पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अभिगच्छतीत्युच्यते / सुघ्नादिप्राप्तिर्वा पथो गमनम् / पथि दुत इति किम् / स्रुघ्नं गच्छति साधुः / पाटलिपुत्रं गच्छति नौः पण्यं वणिग्वा / 1633 भजति // 6 / 3 / 204 // द्वितीयान्ताद् भजत्यर्थे यथाविहितं प्रत्ययः स्यात् / स्रुघ्नं भजति स्रोन्नः / माथुरः / नादेयः / राष्ट्रियः / 1634 महाराजादिकम् // 6 // 3 / 205 // महाराजशब्दाद् द्वितीयान्ताद् भजत्यर्थे इकण् प्रत्ययः स्यात् / महाराजं भजति माहाराजिकः / 1635 अचित्ताददेशकालात् // 6 / 3 / 206 // देशकालवजितं यदचित्तमचेतनं तद्वाचिनो द्वितीयान्तात् भजत्यर्थे इकण प्रत्ययः स्यात् / अणादेर्वाधकः। अप्रपान भजति आपूपिकः / शाष्कुलिकः / मौदकिकः / पायसिकः / अचित्तादिति किम् / देवदत्तः / अदेशकालादिति किम् / सौनः / हैमनः / 1636 वासुदेवार्जुनादकः // 6 // 3 // 207 // आभ्यां द्वितीयान्ताभ्यां भजत्यर्थेऽकः प्रत्ययः स्यात् / ईयाकबोरपवादः / वासुदेवं भजति वासुदेवकः / यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियवचनस्तदोत्तरेणाकञ् न प्राप्नोति किंतु दोरीय इति ईयः स्यादिति तद्ग्रहणम् / अर्जुनं भजति अर्जुनक; / अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकञ् स्यादिति केनैव सिद्धेऽकविधानं वासुदेवीं भजति वासुदेवकः अर्जुनीमर्जुनक इत्येवमर्थम् / - 1637 गोत्रक्षत्रियेभ्योऽकञ् प्रायः // 6 // 3 / 208 // गोत्रवाचिभ्यः