SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. निपात्यते नाम्नि / छन्दसा इच्छया कृतः छन्दस्यः / न तु प्रवचनेन गायत्र्यादिना वा। नान्नीत्यधिकारादभिधेयव्यवस्था / निपातनात् कचिदन्यात्रापि भवति / ॐ श्रावयेति चतुरक्षरम् अस्तु श्रौषट् इति चतुरक्षरम् ये यजामहे इति पञ्चाक्षरम् यजेति यक्षरं यक्षरो वषट्कारः एष वै सप्तदशाक्षरश्छन्दस्यो यज्ञमनुविहितः / अत्र स्वार्थे यः / यथानुष्टुवादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूहश्छन्दस्य उच्यते। 1627 अमोऽधिकृत्य ग्रन्थे // 6 // 3 // 198 // कृत इति वर्तते अम इति द्वितीयान्तादधिकृत्य कृते ग्रन्थेऽर्थे यथाविहितं प्रत्ययः स्यात् / अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः / तदपेक्षा द्वितीया / सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः / भद्रां भाद्रः / सुतारां सौतारः / भीमरथामधिकृत्य कृताख्यायिका भैमरथी / ग्रन्थ इति किम् / सुभद्रामधिकृत्य कृतः प्रासादः। कथं वासवदत्तामधिकृत्य कृताख्यायिका वासवदत्ता उर्वशी सुमनोहरा बलिबन्धनं सीताहरणमिति ? उपचाराद् ग्रन्थे ताच्छब्ध भविष्यति। 1628 ज्योतिषम् // 6 // 3 / 199 // ज्योति शब्दादमोऽधिकृत्य कृते ग्रन्थेऽण् प्रत्ययो वृद्धयभावश्च निपात्यते / ज्योतीष्यधिकृत्य कृतो मन्थो ज्योतिषम् / 1629 शिशुक्रन्दादिभ्य ईयः // 6 / 3 / 200 // शिशुक्रन्दादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे ईयः प्रत्ययः स्यात् / शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः / यमसभीयः / इन्द्रजननीयः। प्रद्युम्नप्रत्यागमनीयः / प्रद्युम्नोदयनीयः / सीताहरणीयः / सीतान्वेषणीयः / शिशुक्रन्दादयः प्रयोगतोऽनुसर्तव्याः / शिशुक्रन्दशद्वात् केचिनेच्छन्ति / शैशुक्रन्दम् / 1630 द्वन्द्वात् प्रायः // 6 // 3 // 201 // द्वन्द्वात् समासादमोऽधिकृत्य कृते ग्रन्थे प्राय ईयः स्यात् / अणोऽपवादः। वाक्यपदीयम् / द्रव्यपर्यायीयम् / शब्दार्थसंबन्धीयम् / श्येनकपोतीयम् / प्राय इति किम् / दैवासुरम् / राक्षोसुरम् / 1631 आभिनिष्क्रामति द्वारे // 6 / 3 / 202 // द्वितीयान्तादभिनिष्कामति-अभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययः स्यात् तदभिनिष्क्रामद् द्वारं चेत् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy