________________ 330 सिद्धहैमबृहत्प्रक्रिया. . [तद्धित 1621 कृते // 6 / 3 / 192 // तेनेति तृतीयान्तात् कृते उत्पादितेऽर्थे यथाविहितमणादयः स्युः / शिवेन कृतो ग्रन्थः शैवः / वाररुचानि वाक्यानि / जलूकेन जलूकया वा कृता जालूकाः श्लोकाः। जालकिना जालुकाः / अत्र 'वृद्धेवः' इत्यत्र / सिद्धसेनीयः स्तवः / इष्टकाभिः कृतः प्रासादः ऐष्टकः / नारदेन कृतं गीतं नारदीयम् / मनसा कृता मानसी कन्या। तक्ष्णा कृतः प्रासादः इत्यादावनभिधानान्न भवति / कृते ग्रन्थे एवेच्छन्त्यन्ये / 1622 नाग्नि मक्षिकादिभ्यः // 6 // 3 / 193 // मक्षिकादिभ्यस्तृतीयान्तेभ्यः कृतेऽर्थे यथाविहितं प्रत्ययः स्यान्नाम्नि / मक्षिकाभिः कृतं माक्षिकं मधु / सरघाभिः सारघम् / गर्मुद्भिर्मुतम् / नर्मुकाभिनार्मुकम् / नाम्नीति किम् / मक्षिकाभिः कृतं शकृत् / वातपैः कृतं वातपमित्यत्राणन्तं नाम नेयान्तमितीयो न भवति / मक्षिकादयः प्रयोगगम्याः। 1623 कुलालादेरकञ् // 6 // 3 // 194 // कुलालादिभ्यस्तेन कृतेऽर्थेऽकम् प्रत्यय: स्यान्नाम्नि / कुलालेन कृतं कौलालकम् / वारुटकम् / नाम्नीत्यभिधेयनियमार्थम् / तेन घटघटीशरावोदश्चनायेव भाण्डं कौलालकं न यत्किञ्चित् कुलालकृतम् / शूर्पपिटकपटलिकापिच्छिकायेव भाण्डं वारुटकं नान्यत् / एवमन्यत्राप्यभिधेयनियमः। 1624 सर्वचर्मण ईनेनौ // 63 / 195 // सर्वचर्मन्शद्वात् तेन कृते ईन ईनञ् इत्येतौ प्रत्ययौ स्याताम् / नाम्नीत्यधिकारादभिधेयनियमः / सर्वश्चर्मणा कृतः सर्वचर्मीणः, सार्वचर्मीणः। अत्र सर्वशद्धस्य कृतापेक्षस्य चर्मशब्देनायोगिनापि नाम नाम्नेत्यादिना समासः। 1625 उरसो याणौ // 6 / 3 / 196 // उरसशद्वात् तेन कृते य अण् इत्येतौ प्रत्ययौ स्याताम् नाम्नि / उरसा कृतः उरस्यः, औरस्यः। 1626 छन्दस्यः // 6 // 3 // 197 // छन्दस्शब्दात् तेन कृते यः प्रत्ययो लोकतोऽर्थगतेस्तदेवं कालपरिभाषारहितमकालकं ब्याकरणं पाणिनिना प्रथम ज्ञातं स्वयमेव योपदेशेन विना ज्ञातं प्रथमतः कृतं वेत्यर्थः /