SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] . सिद्धहैमबृहत्मक्रिया. 329 प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः / कौशिकेन कौशिकिनः / काश्यपिनां धर्म आम्नायः संघो वा काश्यपकः। कौशिकिनां कौशिकिकः। वेदवचेत्यतिदेशात् वेदेन्ब्राह्मणमत्रैवेति नियमाद् वेदित्रध्येतविषयता चरणादकञ् इत्यकञ् च भवति / कल्प इत्येव / काश्यपीया संहिता / पुराण इत्येव / इदानींतनेन गोत्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः / वेदवच्चेति अतिदेशार्थं वचनम् / 1618 शिलालिपाराशर्यान्नटभिक्षुसूत्रे // 6 / 3 / 189 // शिलालिन् पाराशर्य इत्येताभ्यां तेन प्रोतते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् प्रत्ययः स्यात् वेदवच्चास्मिन् कार्य भवति / अणजपवादः। नटानामध्यननं नटमूत्रम् / भिक्षणामध्ययनं भिक्षुमूत्रम् / शिलालिना प्रोक्तं नटमूत्रं विदन्त्यधीयते वा शैलालिनो नटाः। पाराशर्येण प्रोक्तं भिक्षसूत्रं विदन्त्यधीयते वा पाराशरिणो भिक्षवः। शैलालिनां धर्म आम्नायः संघो वा शैलालकम् / पाराशरकम् / अतिदेशाद् वेदित्रध्येतृविषयता चरणादकञ् च भवति / नटभिक्षुसूत्र इति किम् / शैलालम् / पाराशरम् / - 1619 कृशाश्वकर्मन्दादिन् // 6 / 3 / 190 // आभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च इन् प्रत्ययः स्यात् वेदवच्चास्मिन् कार्यम् / अणोऽपवादः / कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा कृशाश्विनो नटाः। कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः / अतिदेशादकञ् च / काश्विकम् / कार्मन्दकम् / नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके। कापिलेयिनो नटाः / कापिलेयक आम्नायः / 1620 उपज्ञाते // 6 // 3 / 191 // तेनेति वर्तते / प्रथमत उपदेशेन विना ज्ञातमुपज्ञातं प्रथमतः कृतं वोपज्ञातम् / तस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययः स्यात् / पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् १अकालकं व्याकरणम् / काशकृत्स्नं गुरुलाघवम् / 1 न विद्यते कालः कालाधिकारो यत्र। पाणिनेः पूर्वे अचार्याः कालपरिभाषां कुर्वन्तिस्म आन्याय्यादुत्थानादान्याय्याच्च संवेशनादेषोऽद्यतनः कालः। अन्ये पुनराहुः उभयतोऽर्द्धरात्रं वेति / तत्पाणिनिः प्रत्याचष्टे / तदशिष्यं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy