________________ 328 सिद्धहैमबृहत्मक्रिया. [तद्धित प्रोक्ते यः प्रत्ययस्तस्य लुप् स्यात् स चेमोक्तो वेदः भवति / कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः। चरकाः। वेदेन्ब्राह्मणमिति नियमात् वेदित्रध्येत्रोरेव विषये प्रत्ययस्य लुप् / वेद इति किम् / चरकेण प्रोक्ताचारकाः श्लोकाः / चरको वैशम्पायनः / कठादयः प्रयोगगम्याः। 1612 तित्तिरिवरतन्तुखण्डिकोखादीयण // 6 // 3 // 184 // तित्तिरि वरतन्तु खण्डिक उख इत्येतेभ्यस्तेन प्रोक्तेऽर्थे ईयण प्रत्ययः स्यात् स चेमोक्तो वेदो भवति / अणोऽपवादः। तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाः। वारतन्तबीयाः / खाण्डिकीयाः। औखीयाः / वेदे इत्येव / तित्तिरिणा प्रोक्तास्तैतिराः श्लोकाः / अत्रापि वेदेन्ब्राह्मणमत्रैवेत्युपतिष्ठते / / 1613 छगलिनो यिन् // 6 // 3 // 185 // छगलिन्शब्दात् तेन प्रोक्ते वेदे णेयिन् प्रत्ययः स्यात् / अणोऽपवादः। छगलिना प्रोक्तं वेदं विदन्त्यधीयते वा छागलेयिनः। 1614 शौनकादिभ्यो णिन् // 6 // 3 // 186 // शौनक इत्येवमादिभ्यस्तेन प्रोक्ते वेदे णिन् प्रत्यय: स्यात् / अणाधपवादः / शौनकेन प्रोक्तं वेदं विदन्त्यधीयते वा शौनकिनः / शाङ्गरविणः / वाजसनेयिनः। वेद इत्येव / शौनकीया शिक्षा / शौनकादिराकृतिगणः / तेन भाल्लविना प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा भाल्लविनः, शाव्यायनिनः ऐतरेयिणः इत्यादि सिद्धं भवति / ब्राह्मणमपि वेद एव / मन्त्रब्राह्मणं हि वेदः। 1615 पुराणे कल्पे // 6 // 3 // 187 // तेनेति तृतीयान्तात् प्रोक्तेऽर्थे णिन् प्रत्ययः स्यात् स चेत्रोक्तः पुराणः कल्पो भवति / अणाद्यपवादः। पिङ्गेन प्रोक्तः कल्पः पुराणः पैङ्गी कल्पः / तृणपिङ्गेन तार्णपिङ्गी कल्पः / अरुणपराजेन आरुणपराजी कल्पः। येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः / आरुणपराजिनः / प्रोक्ताद्धि लुबुक्तैव / पुराण इति किम् / आश्मरथः कल्पः / आश्मरथ्येन प्रोक्तः कल्प उत्तरकल्पेभ्य आरातीयः श्रूयते / 1616 काश्यपकौशिकावेदवच्च // 6 // 3 / 188 // आभ्यां तेन प्रोक्ते पुराणे कल्पे णिन् प्रत्ययः स्यात् वेदवच्चास्मिन् कार्यम् / ईयापवादः। कश्यपेन