________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 327 1607 वहेस्तुरिश्चादिः // 6 / 3 / 180 / वहेः परो यस्तृचस्तुनो वा तृशब्दस्तदन्तानाम्नस्तस्येदमित्यर्थेऽञ् प्रत्ययस्तृशब्दस्य चादिरिकारो भवति / संवोहुः सारथेरिदं सांवहित्रम् / 1608 तेन प्रोक्त // 6 // 3 // 181 // प्रकर्षण व्याख्यातमध्यापितं वा प्रोक्तम् न तु कृतम् / तत्र कृत इत्येव गतत्वात् / तस्मिन्नर्थे तेनेति तृतीयान्ताबानो यथाविहितं प्रत्ययाः स्युः। भद्रबाहुना प्रोक्तानि भाद्रवाहवानि उत्तराध्ययनानि / गणधरमत्येकबुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः / याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि / पाणिनेन पाणिनीयम् / आपिशलिना आपिशलम् / काशकृत्स्निना काशकृत्स्नम् / उशनसा औशनसम् / बृहस्पतिना बार्हस्पत्यम् / 1609 कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्मचारिपीठसर्पिसूकरसमसुपर्वणः // 7 / 4 / 12 // कलाप्यादीनां नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलक् स्यात् / अत्र ये इन्नन्तास्तेषामनपत्य इति शिखण्डिपीठसर्पिणोरपत्येऽपि संयोगादिन इति सूकरसद्ममुपर्वणोस्त्वणि इति निषेधे प्राप्ते लुग्वचनम् / कलापिना प्रोक्तं वेदमधीयते कालापाः। कौथुमाः / तैतलि जाजलि लाङ्गलि चाचार्याः / तत्कृतो ग्रन्थोऽप्युपचारात् तच्छब्देनोच्यते / तदधीयते तैतलाः / जाजलाः। लाङ्गलाः / शिखंडिन इमेऽपत्यानि वा शैखंडाः / शिलालिनः शैलालाः। सब्रह्मचारिणः साब्रह्मचाराः। पीठसर्पिण; पैठसर्पाः। सूकरसद्मनः सौकरसमाः / सुपर्वणः सौपर्वाः / 1610 मौदादिभ्यः // 6 // 3 / 182 // मौद इत्येवमादिभ्यस्तेन प्रोक्ते यथाविहितं प्रत्ययः स्यात् / स चापवादैर्वाधितोऽणेव / अपवादस्यैव भावे वचनानर्थ्यक्यात् / मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः। वेदेन्ब्राह्मणमत्रैवेति नियमादत्र वेदित्रध्येतविषय एवाण् / एवं पैप्पलादाः। जाजलाः / माथुरेण प्रोक्ता माथुरी वृत्तिः / सौलभानि ब्राह्मणानि / मौदादयः प्रयोगगम्याः / 1611 कठादिभ्यो वेदे लुप् // 6 / 3 / 183 // कठ इत्येवमादिभ्यः