SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 326 सिद्धहैमबृहत्प्रक्रिया. [तद्धित 1600 शाकलादकञ् च // 6 / 3 / 173 // शाकलशब्दात् तस्येदमित्यर्थे संघादावण अकञ् च प्रत्ययः स्यात् / शाकल्येन प्रोक्तं वेदं विदन्त्यधीयते वा शाकला; / तेषां संघो घोषोऽङ्को वा शाकलः / शाकलकः / शाकलं शाकलकं लक्षणम् / 1601 गृहेऽग्नीधो रण धश्च // 6 // 3 // 174 // अग्नी ऋत्विग्विशेषः / तस्मात् तस्येदमित्यर्थे गृहे रण प्रत्ययः स्यात् अन्तस्य च तृतीयबाधनाथ धादेशः / अग्नीध इदं गृहमाग्नीध्रम् / 1602 रथात् सादेश्च वोढुङ्गे // 6 // 3 // 175 // नियमसूत्रमेतत् / रथात् केवलात् सपूर्वाच्च पष्ठयन्तादिदमर्थे यः प्रत्ययः स्यात् रथस्य वोढरि अङ्गे एव च / रथस्यायं वोढा रथ्योऽश्वः / रथस्येदमङ्गं रथ्यं चक्रम् / रथ्यंयुगम् / सादि-द्वयो रथयोर्वोढा द्विरथः / त्रिरथः / द्विगोरनपत्ये यस्वरे इत्यादिना यलुप् / अन्ये तु स्वरादेव लुपमिच्छन्ति, तन्मते द्विरथ्यः / परमरथस्येदं परमरथ्यम् / उत्तमरथ्यम् / आश्वरथं चक्रम् / वोढूङ्ग - एवेति नियमात् अन्यत्र वाक्यमेव न प्रत्ययः / रथस्येदं स्थानम् / अश्वरथस्य स्वामी। 1603 यः // 6 / 3 / 176 // रथात् केवलात् सादेश्च षष्ठयन्तादिदमर्थे यः प्रत्ययः स्यात् / अणाद्यपवादः। रथस्यायं बोढा रथ्यः / द्वयो रथयोर्वोढा द्विरथः / रथ्यम् / परमरथ्यम् / काष्ठरथ्यं चक्रम् / 1604 पत्रपूर्वादञ् // 6 / 3 / 177 // पत्रं वाहनम् / तत्पूर्वात् रथशब्दात् षष्ठयन्तादिदमर्थेऽञ् प्रत्ययः स्यात् / यापवादः / अश्वस्थस्येदमाश्वरथं चक्रम् / आश्वरथं युगम् / औष्ट्ररथम् / रासभरथम् / 1605 वाहनात् // 6 // 3 // 178 // वाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययः स्यात् / अणादेरपवादः / उष्ट्रस्यायमौष्ट्रः / रासभः / हास्तो रथः / 1606 वाह्यपथ्युपकरणे // 6 // 3 // 179 // नियमसूत्रमिदम् / वाहनाधोऽयं प्रत्यय उक्तः स वाह्ये पथि उपकरणे एव चेदमर्थे स्थानान्यत्र / अश्वस्यायमाश्वो रथः पन्था वा / आश्वं पल्ययनम् / आश्वी कशा / वाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव न प्रत्ययः। अश्वानां घासः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy