SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 325 ग्लौचुकायनकम् / अदण्डमाणवशिष्ये इति किम् / काव्यस्येमे कावा दण्डमाणवाः शिष्या वा / एवं गौकक्षाः / शकलादेर्यत्र इत्यम् / दाक्षेरिमे दाक्षाः / प्लाक्षाः / माहकाः / वृद्धेन इत्यञ् / दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्थाः / शिष्या अध्ययनार्था अन्तेवासिनः। 1597 रैवतिकादेरीयः // 6 // 3 // 170 // रैवतिकादेत्रवाचिनस्तस्येदमित्यर्थे ईयः प्रत्ययः स्यात् / अकादेरपवादः / रैवतिकस्येदं रैवतिकीयम् शकटम् / रैवतिकीयः संघादिः। रैवतिकीया दण्डमाणवशिष्याः / गौरग्रीवीयं शकटम् / गौरग्रीवीयः संघादिः / गौरग्रीवीया दण्डमाणवशिष्याः / 1598 कौपिञ्जलहास्तिपदादण् // 6 // 3 // 171 // आभ्यां गोत्रवाचिभ्यां तस्येदमित्यर्थेऽण् प्रत्ययः स्यात् / अकबादेरपवादः / कुपिञ्जलस्यापत्यं कौपिञ्जलः / इस्तिपादस्यापत्यं हास्तिपदः / अतो निपातनादेवाण पादस्य च पद्भावः / तयोरिदं कौपिञ्जलम् , हास्तिपदं शकटम् / कौपिञ्जलाः हास्तिपदाः दण्डमाणवशिष्याः। अथाणग्रहणं किमर्थम् / यथाविहितमित्येव ह्यण् सिद्धः / न चेयः प्राप्नोति / तदभीष्टौ हि रैवतिकादावेवैतौ पठ्येयाताम् / असत्यण्ग्रहणे दण्डमाणवकशिष्येष्वकअर्थमेतत् स्यात् / तत्र ह्यकञ् प्रतिषिद्ध इति / णित्वं ड्यर्थ पुंवद्भावार्थ च / कौपिञ्जलीस्थूणः। हास्तिपदीस्थूणः / . 1599 संघघोषाङ्कलक्षणेऽज्यभित्रः // 6 // 3 // 172 // अअन्तात् यजन्तात् इअन्ताच गोत्रवाचिनस्तस्येदमित्यर्थे संघादावण प्रत्ययः स्यात् / अकबोऽपवादः / अञ्-विदानामयं बैदः संघो घोषोऽङ्को वा / बैदं लक्षणम् / यञ्-दाक्षीणामयं दाक्षः संघो घोषोऽङ्को वा / दाक्षं लक्षणम् / संघादिष्विति किम् / विदानां गृहम् / अव्यभित्र इति किम् / औषगवकः संघादिः / गोत्रादित्येव / सौतंगमीयः संघादिः। अथाङ्कलक्षणयोः को विशेषः / लक्षणं लक्ष्यस्यैव स्वम् / यथा शिखादि / अङ्कस्तु स्वामिविशेषविज्ञापकः / स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वं भवति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy