________________ .324 सिद्धहैमबृहत्प्रक्रिया. [ तद्धित ....1591 अदेवासुरादिभ्यो वैरे // 6 // 3 // 164 // द्वन्द्वात् षष्ठयन्ताद्देवासु रादिवर्जितादिदमर्थे वैरेऽकल् प्रत्ययः स्यात् / अणोऽपवादः। इयं तु परत्वाद् बाधते / वाभ्रवशालङ्कायनानामिदं वैरं बाभ्रवशालङ्कायनिका / काकोलूकस्येदं वैरं काकोलूकिका / श्वावराहिका / श्वशृगालिका / अहिनकुलिका। अदेवासुरादिभ्य इति किम् / दैवासुरम् / राक्षोऽसुरम् / देवासुरादयः प्रयोगगम्याः। . 1592 नटान्नृत्ते ज्यः // 6 / 3 / 166 // नटशब्दात्तस्येदमित्यर्थे नृत्ते व्यः प्रत्ययः स्यात् / नटानामिदं नृत्त नाट्यम् / नृत्त इति किम् / नटानामिदं गृहम् / ....1593 छन्दोगाक्थिकयाज्ञिकवचाच धर्माम्नायसंधे // 6 // 3 / 166 // छन्दोगादिभ्यश्चरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ व्यः प्रत्ययः स्यात् / छन्दोगादिभ्यश्चरमाको नटादणोऽपवादः / छन्दोगानां धर्म आम्नायः संघो वा छान्दोग्यम् / औक्थिक्यम् / याज्ञिक्यम् / बाढच्यम् / नाटयम् / धर्मादिष्विति किम् / छन्दोगानां गृहं छान्दोगम् / ' - 1594 आथर्वणिकादणिकलुक् च ॥६॥३॥१६७॥आथर्वणिकशब्दा“त्तस्येदमित्यर्थे धर्मादावण स्यादिकलोपश्चास्य भवति / अथर्वणा प्रोक्तं वेदं वेत्त्यधीते वा आथर्वणिकः / न्यायादित्वादिकण / अत एव निपातनाद् गणपाठसामर्थ्याद्वा प्रोक्ताल्लुप् न भवति / आथर्वणिकानां धर्म आम्नायः संघो वा आथर्वणः / चरणादकत्रि प्राप्ते वचनम् / .... 1595 चरणादकञ् // 6 // 3 // 168 // चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यायिषु वर्तते / चरणवाचिनस्तस्येदमित्यर्थे धर्मादावका प्रत्ययः स्यात् / / अणोऽपवादः / इयं तु परत्वाद् बाधते / कठानां धर्म आम्नायः संघो वा काठकः चरकाणां चारक;। कळापानां कालापकः / पैप्पलादानां पैप्पलादकः / मौदानां मौदकः / आर्चाभिनामार्चाभकः। वाजसनेयिनां वाजसनेयकः / 1596 गोत्राददण्डमाणवशिष्ये // 6 // 3 / 169 // गोत्रवाचिनस्तस्येदमित्यर्थे दण्डमाणवशिष्यवर्जितेऽकञ् प्रत्ययः स्यात् / अणोऽपवादः / औपगवस्येदपमौम् गवकम् / कापटवक। दाक्षकम् / प्लाक्षकम् / गार्गकम् / गाायणकम् / किन् / छन्दागाना छान्दागम् /