________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 1583 न्यकोर्वा // 7 // 48 // न्यङ्कशब्दस्य तद्धिते व्णिति परे यकारात् प्रागैकारो वा स्यात् / न्यङ्कोरिदं नैयङ्कवम् / न्याङ्कवम् / 1584 नत्रः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः // 4 // 23 // नमः परेषां क्षेत्रज्ञ ईश्वर कुशल चपल निपुण शुचि इत्येतेषां प्रकृत्यवयवानां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य दृद्धिः स्यात् आदेस्तु नबो वा / अक्षेत्रज्ञस्येदं अक्षैत्रज्ञम्, आक्षेत्रज्ञम् , एवमनैश्वरम् , आनैश्वरम् / अकौशलम्, आकौशलम् / अचापलम् , आचापलम् / अनैपुणम् / आनैपुणम् / न शुचिः अनुचिः तस्येदम् अशौचम् आशौचम् / - 1585 उक्षणो लुक् / / 7 / 4 / 56 // उक्षनशब्दस्यानपत्येऽणि अन्त्यस्वरादेलक् स्यात् / उक्ष्ण इदमौक्षं पदम् / अनपत्य इत्येव / उक्ष्णोऽपत्यमीक्ष्णः। 1586 ब्रह्मणः / / 7 / 4 / 57 // ब्रह्मन्शब्दस्यानपत्येऽणि अन्त्यस्वरादे क् स्यात् / ब्रह्मण इदं ब्राह्ममस्त्रम् / 1587 जातौ // 74 / 58 // ब्रह्मन्शब्दस्य जातावभिधेयायामनपत्येऽणि अन्त्यस्वरादेलक् स्यात् / ब्रह्मण इयं ब्राह्मी औषधिः / पूर्वेण सिद्धे जातावनपत्यएवेति नियमार्थ वचनम् / ... 1888 हलसीरादिकण // 6 // 3 // 161 // आभ्यां षष्ठयन्ताभ्यामिदमित्यर्थे इकण प्रत्ययः स्यात् / अणोऽपवादः / हालिकम् / सैरिकम् / 1589 समिध आधाने टेन्यण // 6 // 3 // 162 // आधीयते येन समित्तदाधानम् / समिध इत्येतस्मात्तस्येदमित्यर्थे टेन्यण प्रत्ययः स्यात् तचेदिदमाधानं भवति / अणोऽपवादः / टकारो ड्यर्थः / समिधामाधानो मन्त्रः सामिधेन्यो मन्त्रः। सामिधेनी ऋक् / सामिधेनीरन्वाह / पञ्चदश सामिधेन्यः / 1590 विवाहे बन्दादकल् // 6 // 3 // 163 // द्वन्द्वात्तस्येदमित्यर्थे विवाहेऽभिधेयेऽकल् प्रत्ययः स्यात् / अणोऽपवादः / अत्रिभरद्वाजानां विवाहोऽत्रिभरद्वाजिका / वसिष्ठकश्यपिका / भृग्वगिरसिका / कुत्सकुशिकिका। गर्गभार्गविको / कुरुटष्णिका / कुरुकाशिका / लकारः स्त्रीत्वार्थः /