SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 322 सिद्धहैमबृहत्पक्रिया. [तद्धित चिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे रूप्य मयट् इत्येतौ प्रत्ययौ वा स्याताम् / ताभ्यां मुक्त यथापाप्तम् / वचनभेदाद् यथासंख्याभावः / हेतुः कारणम् / नृग्रहणमहेत्वर्थम् / देवदत्तादागतं देवदत्तरूप्यम् / देवदत्तमयम् / दैवदत्तम् / अत्रापादाने . पञ्चमी / हेतुः-समादागतं समरूप्यम् / सममयम् / विषमरूप्यं विषममयम् / पक्षे गहादिपाठादीयः / समीयम् / विषमीयम् / पापरूप्यम् / पापमयम् / पक्षे दोरीयः। पापीयम् / अत्र हेतौ पञ्चमी / बहुवचनं स्वरूपव्युदासार्थम् / ... 1579 प्रभवति // 6 // 3 // 157 // तत इति वर्तते / तत इति पञ्चम्यन्ताद प्रभवति-प्रथमं प्रकाशमानेऽर्थे यथाविहितं प्रत्ययाः स्युः / प्रथममुपलभ्यमानता प्रभवः। अन्ये प्रभवति-जायमाने इत्याहुः। 'जाते' इति भूते सप्तम्यन्ताद् प्रत्ययः अयं तु पञ्चम्यन्ताद वर्तमाने इति विशेषः / हिमवतः प्रभवति हैमवती गङ्गा / दारदी सिन्धुः। काश्मीरी वितस्ता / कश्मीरशब्दात् 'बहुविषयेभ्यः' इति अकोऽपवादः कच्छाद्यण् / 1580 चैडूर्यः // 6 // 3 / 158 // विडूरशब्दात् पञ्चम्यन्तात् प्रभवत्यर्थे ज्यः प्रत्ययो निपात्यते / विडूरात् प्रभवति वैडूर्यो मणिः / विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथम प्रभवति / वालवायात्तु पर्वतादसौ प्रभवन्न मणिः किंतु पाषाणः / यदा तु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्य व्यस्त संनियोगे विडूरादेशश्च निपात्यते / वालवायपर्याय एव वा विडूरशब्दः / प्रति. नियतविषयाश्च रूढया इति वैयाकरणानामेव प्रसिद्धिः / यथा जित्वरीशब्दस्य वाराणस्यां वणिजामेव / वालवायशब्दात्तु ईयपत्ययोऽनभिधानान्न भवति / 1581 त्यदादेर्मयट् // 6 / 3 / 159 // त्यदादिभ्यः पञ्चम्यन्तेभ्यः प्रभवत्यर्थे मयट् प्रत्ययः स्यात् / तन्मयम् / तन्मयी / भवन्मयम् / भवन्मयी / 1582 तस्येदम् // 6 // 3 // 160 // तस्येति षष्ठयन्तादिदमित्यर्थे यथाविहितमणादय एयणादयश्च स्युः / उपगोरिदमौपगवम् / दैत्यम् / कालेयम् / औत्सम् / स्त्रैणम् / गव्यम् / नादेयम् / राष्ट्रियम् / पारीणः / भानवीयः / पाटलिपुत्रक पाकारः / इह त्वनभिधानान्न भवति / देवदत्तस्यानन्तरः। तस्येति षष्ठयर्थमात्रमिदमिति षष्ठयर्थसंबंधिमानं च विवक्षितम् / यदन्यल्लिङ्गसंख्याप्रत्यक्षपरोक्षत्वादिकं तदविवक्षितम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy