SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 1574 ऋत इकण् // ६॥३॥१५२॥ऋकारान्ताद् विद्यायोनिसंबंधवाचिन: पञ्चम्यन्तादागतेऽर्थे इकण प्रत्ययः स्यात् / अकञोऽपवादः / होतुरागतं होतकम् / पैतृकम् / पाशास्तृकम् / मातिहर्तृकम् / शास्तृकम् / योनिसंबन्ध-मातृकम् / भ्रातृकम् / स्वासकम् / दौहितकम् / जामातृकम् / नानान्दृकम् / मातृकी विद्या / इकणन्तत्वाद् ङीमत्ययः। 1575 आयस्थानात् // 6 // 3 // 153 // स्वामिग्राह्यो भाग आयः स यस्मिवत्पद्यते तदायस्थानम् / तद्वाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययः स्यात् / अणोऽपवादः। इयं तु परत्वाद बाधते / एत्य तरन्त्यस्मिनित्यातरो नदीतीर्थम् / तत आगतम् आतरिकम् / शौल्कशालिकम् / आपणिकम् / दौवारिकम् / आयस्थानत्वेनापसिद्धादपि तादूप्येण विवक्षिताद् भवतीति कश्चित् / सौनिकः / 1576 शुण्डिकादरण / / 6 / 3 / 154 // शुण्डिक इत्येवमादिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽण् प्रत्ययः स्यात् / इकणादेरपवादः / शुण्डः शुण्डा वा सुरा ततो मत्वर्थीये शुण्डिकः शुण्डिका वा सुरापणः सुराविक्रयी चोच्यते / तत आगतं शौण्डिकम् / औदपानम् / कार्कणम् / अणग्रहणं विस्पष्टार्थम् / यदि ह्यनेनाप्यायस्थानादिकण तीर्थाद् धूमाघकञ् पर्णकृकणाभ्यां चैयः स्याद्वचनमिदमनर्थकं स्यात् / न चोदपानादिहाव्यणि वा विशेषोऽस्तीति / यदा तु शुण्डिकादीनि सर्वाण्यायस्थानान्येव तदा अकबीयवाधनार्थम् / 1577 गोत्रादङ्गवत् // 6 / 3 / 155 // गोत्रवाचिनः शब्दात् पञ्चम्यन्तादागतेऽर्थे अङ्क इव प्रत्ययविधिः स्यात् / यथा भवति विदानामङ्क: बैदः गार्गः दाक्ष इति 'संघघोषाङ्क' इत्यादिनाण तथेहापि बिदेभ्य आगतं बैदं गार्ग दाक्षम् / अङ्कग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते / तेनाकोऽप्यतिदेशः / अन्यथा संघायण एव स्यात् / तेन यथा भवति औपगवकः कापटवकः नाडायनकः गार्यायणक इति -- गोत्राददण्ड ' इत्यादिनाकञ् तथेहापि औपगवेभ्य आगत औपगवकः कापटवकः नाडायनकः गाायणकः / एवं रैवतिकेभ्य आगतं रैवतिकीयम् - 'रैवतिकादेरीयः' गौरग्रीवीयम् / कौपिञ्जलादागतं कौपिञ्जलं-'कौपिञ्जलंहास्तिपदादण् ' / हास्तिपदम् / 1578 नृहेतुभ्यो रूप्यमयटौ वा // 6 // 3 // 156 // नृवाचिभ्यो हेतुवा: 41
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy